________________
हरि०
श्रीतच्चार्थ
तत् कियद् ?, उच्यते, सर्वकेवलिनामानंत्यादनन्तगुणं केवल्याधारमेतद् दृश्य इत्यत आह–'सम्यग्दृष्टयस्त्वनन्ता' इति, ४केवलिनोऽनन्ता इत्यर्थः, अतस्तद्वय॑प्यनन्तमेव, इतिः द्वारसमाप्तिसूचकः। अथ किं सम्यग्दर्शनस्यैव निर्देशादिसदादिभिर्दारैरधि
अल्पबहुत्वं
ज्ञानभेदाः | गमः क्रियते ? उत ज्ञानादीनामपि ?, ज्ञानादीनामपि, किंतु एकत्र सम्यग्दर्शने योजना कृता, अन्यत्राप्येवं दृश्येत्यतिदिशति'एवं सर्वभावाना'मित्यादिना, 'एव'मिति यथा सम्यग्दर्शनस्य तथा सर्वभावानां ज्ञानादीनां नामस्थापनादिभी रचनां कृत्वा प्रमाणनयनिर्देशादिसदादिमिः परीक्षाधिगमः कार्य इति, यत् प्रस्तुतं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति, तत्र यत् सम्यग्दर्शने विचार्य तदभिहितं, तदभिधानाच्च परिसमापितं सम्यग्दर्शनमित्येतदाह-उक्तं सम्यग्दर्शनं, द्वितीयावयवव्याचिख्यासाप्रस्तावप्रदर्शनायाह-ज्ञानं वक्ष्यामः, कीटक तदिति चेद् , उच्यते
मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानं ॥ (सूत्रं १) ... मत्यादीनि सर्वाण्येव ज्ञानं प्रत्येक, न तु सर्वाण्येकमेव,एकवचननिर्देशस्तु सर्वेषामोघतः समानजातीयत्वज्ञापनार्थः, तथाहि-| सर्वाण्येव विषयावबोधे ज्ञानानीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह भाष्यकार:-'मतिज्ञान'मित्यादि (पृ. १४-५.) मननं मतिः-इन्द्रियानिन्द्रियपरिच्छेदः,ज्ञातिर्ज्ञानं,सामान्येन वस्तुस्वरूपावधारणं,ज्ञानशब्दः सामान्यवाचको मत्या विशेष्यते,मतिश्चासौ
ज्ञानं चेति मतिज्ञानं, एवं 'श्रुतज्ञान 'मिति, श्रुतिः श्रुतं-शब्दार्थसंवेदनं, तेन ज्ञानं विशेष्यते, श्रुतं च तत् ज्ञानं च ॥५६॥ | श्रुतज्ञानमिति, अवधिशब्दो मर्यादावचनः, अमूर्तपरिहारेण साक्षान्मूर्त्तविषयमिन्द्रियानपेक्षं मनःप्रणिधानवीर्यकमवधिज्ञानं, अव-IR|॥५६॥
|धिश्च तज्ज्ञानं च तदवधिज्ञानं, 'मनःपर्यायज्ञान'मिति मनमः पर्यायाः मनःपर्यायाः-जीवादिजेयालोचनप्रकाराः, परगताः
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org