SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भाव: AIभावे औपशमिकादीनां समवतरति इति प्रश्नयति-'सम्यग्दर्शन'मित्यादिना, सम्यग्दर्शनमित्यविशिष्टां रुचिं क्षयादिरूपां| श्रीतत्त्वार्थ- त्रिविधामपि जिज्ञासते क्क केति, तथा च प्रतिवचनमपि भविष्यति-त्रिषु भावेष्विति, 'औपशमिकादीनाम् 'उक्तलक्षणानां हरि० 'कतमो भावः' कतमाऽवस्थेतियावत्, सूरिस्तु हेयभावनिरसिसिषया आदेयं त्रिनित्यनेन कथयति, औदयिक-गतिकषाया |दिरूपं पारिणामिकं च भव्यत्त्वादिलक्षणं विहाय अन्ये त्रयः क्षायिकादयस्तेषु भावेषु भवति, औदयिकपारिणामिकयोर्गत्यादिभव्यत्वाद्यवधारणात्तत् न तयोः समस्ति, अनादित्वाच्च, 'त्रिषु' इति सूच्यते त्रिषु भवति, नौदयिकपारिणामिकयोरिति । द्वारान्तरं स्पृशति 'अल्पबहुत्व'मित्यनेन, अत्र' एतसिन् त्रिषु भावेष्विति व्याख्याते,आहाज्ञः-एषां क्षायिकादीनां 'सम्यग्दर्शनानां' त्रिषु क्षायिकादिषु परिणामेषु वर्तमानानां किं तुल्यसंख्यत्वमुतान्यथेति, आश्रयभेदेन वा अल्पवहुत्वचिंता, आह–'अस्त्यल्पबहुत्व' (आहोस्विदल्पचहत्त्वं मु.) मिति अल्पबहुभावः, किंचिदल्पमत्रास्ति किंचिच्च बहिति, कथं भावनीयम् ?, 'उच्यतेसर्वस्तोकमौपशमिक' यत ईदृशी परिणति श्रेण्यारोहादिस्वभावां न बहवः सच्चाः संप्राप्नुवन्तीत्यागमः, 'ततःक्षायिकमसङ्खयेयगुणं' ततः-औपशमिकात् क्षायिकमिति च,अत्रायं विशेषः प्रेक्ष्यः-छद्मस्थानां श्रेणिकादीनां यत् क्षायिकं तत् गृह्यते, | | अपायसद्भावात्, छमस्थवर्तिनश्च औपशमिकस्यावधितयोपात्तच्यात् तत इत्यगेन अवधिमतापि तारशेन भाष्यं, तत औपशमिकात् | |क्षायिकं छमस्थस्वामिकमसंख्येयगुणमिति,असंख्येयगुणमिति योऽमावौपशमिको राशिः सोऽसङ्खयेयेन राशिना गुण्यते,औपशमिकाद् | |बहुतरमितियावत् , 'ततोऽपि' क्षायिकात् 'क्षायोपशभिकं भवत्यसंख्येयगुणं, सर्वगतिषु बहुस्वाम्याधारस्वात्, असंख्ये॥ ५५॥ यगुणमिति च योऽसौ क्षायिकराशिः सोऽसंख्येयेन गुप्यते, अतः क्षायिकाद् बहुतरमास्त इतियावत्, यत्तहि क्षायिक केवल्याधारं Daunp Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy