________________
श्री तत्वार्थहरि०
॥ ५४ ॥
Jain Education International
9
तत्थे” त्यादि, अतस्तत् सम्यग्दर्शनमेकजीवाङ्गीकरणेन नानाजीवाङ्गीकरणेन च परीक्ष्यं एतदुक्तं भवति - एकेनं प्राप्तं सत् कियन्तं कालमनुपालयत इति, नानाजीवैश्व कियन्तं कालं धार्यत इति परीक्ष्यम्, 'एक जीवं प्रती 'त्यादि, पूर्व भावित एव ग्रन्थ | इति, स्थितिद्वारे नानाजीवान् प्रति सर्वाद्धां - सर्वकालं, महाविदेहादिक्षेत्रमाश्रित्याव्यवच्छेदात् इयं तु स्थितिः क्षायोपशमि| कस्य चिन्तिता, औपशमिकस्य तु यथासम्भवं अन्तर्मुहूर्त्तप्रमाणेति, क्षायिकस्य तु सर्वदाऽवस्थानम् ५। अतोऽनन्तरं अन्तरद्वारं स्पृशति - 'अन्तरं ' इत्यनेन, सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा मिथ्यात्वदलिकोदयात् पुनः कियता कालेन लप्स्यत इति पृच्छति - 'सम्यग्दर्शनस्य को विरहकाल' इति, सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा यावन्न पुनः सम्यग्दर्शनमासादयति स विरहकालः - सम्यग्दर्शनेन शून्यः कालः कियानिति, औपशमिकक्षायोपशमिके निश्रित्य निर्णयवाक्यं प्रवृत्तं- 'एक जीवं प्रती 'त्यादि, | एको जन्तुरौपशमिकं क्षायोपशमिकं वा प्राप्य उज्झित्वा पुनः कश्चिन्मुहूर्त्तस्यान्तर्लभते कश्चित्तु अनन्तेन कालेन लभते, स |चानन्तः काल एवमाख्यायते – उत्कृष्टतोऽपार्द्धः पुद्गलपरावर्त्तः, पुद्गलपरिवर्त्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया सर्वे परिभुक्ता भवंति, स पुद्गलपरावर्त्तः औदारिकेवेक्रियतैजसभाषाप्राणापानमनः कर्म्मभेदात् सप्तधा, एतत्समुदायस्याद्ध गृह्यते किंचिन्न्यूनं एतत् प्रतिपादयितुं कथं शक्यते इति चेदुपाई पुद्गलपरावर्त्त इत्यनेन, उच्यते, 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि प्रवर्त्तन्त' इतिन्यायात्, अयं चार्द्धशब्दः न समप्रविभागवचनः, किंचिन्न्यूनाभिधायित्वाच्च पुंल्लिङ्गः, उपगतोर्द्ध: उपार्द्ध: - किंचिन्न्यून इति प्रादिसमासः, 'नानाजीवा 'निति सर्वजीवान् नास्त्यन्तरं, विदेहादिषु सर्वकालमवस्थानादिति, क्षायिकस्य त्वनपगमान्नास्त्यन्तरं ६ | द्वारान्तराभिधित्सयाऽऽह - 'भाव' इति, यैमा रुचिर्जीवस्य जिनवचनश्रद्धायिनी सा कस्मिन्
For Personal & Private Use Only
www
अन्तरं
1148 11
www.jainelibrary.org