________________
श्रीतवार्थहरि०
क्षेत्रस्पर्शने
अथवा सम्यग्दर्शनिषु निर्मातेषु सम्यग्दृष्टयोऽप्यनेनैव रूपेण ग्रहीष्यन्त इति सम्यग्दर्शनिनः प्रश्नयति, अथवा एकं जीवमुद्दिश्याय प्रकृतः प्रश्नः, एकत्रावधृतक्षेत्रेऽन्यत्राप्युपमानात् तथा प्रतिपत्स्येऽहमिति पृच्छति-सम्यग्दर्शनं कियति क्षेत्रे इति, एकस्मिँश्च पृच्छ| यमाने सम्यग्दर्शन कियति क्षेत्रे इत्येकवचनमपि सुघट भवति, मूरिराह-लोकस्यासंख्येयभाग'मिति, यदैकः पृष्टः एकस्य ।चोत्तरं तदा कोऽर्थः?, योऽहं सम्यग्दर्शनी सोऽहं कियति आधारे स्थितः १, पृष्टे उत्तर-लोकस्यासंख्येयभागे, धर्माधर्मयपरि|च्छिन्न आकाशदेशो जीवाजीवाधारः क्षेत्रं लोकः,तस्यासंख्येयभागे त्वं स्थितो,यतोऽसंख्येयप्रदेशो जीषोऽसंख्येयभाग एव अवगाहते. | सर्वस्य लोकस्य बुद्ध्याऽसंख्येयभागखंडकल्पितस्य य एकोऽसंख्येयभागस्तत्र स्थित इति, अथापि सर्वानेवाङ्गीकृत्य प्रश्नस्तथाप्य|संख्येयभागे पूर्वस्मादभ्यधिकतरे लोकस्य सर्वे वर्तन्त इति युक्तमुत्तरं ३। उत्तरत्र स्पर्शनमाकाशप्रदेशैः पर्यन्तवत्तिमिः सह यः स्पर्शस्तत् स्पर्शनं,अस्मिन् द्वारे पृच्छयते-सम्यग्दर्शनेन किं स्पृष्टमित्यनेन, अत्रापि सम्यग्दर्शनशब्दः सामान्यवाची दृश्यः,एकं वाङ्गीकृत्य प्रवृत्त इति मन्तव्यं,उत्तरं 'लोकस्यासंख्येयभागः स्पृष्ट' इत्येकानेक प्रश्नानुरोवेन , यः पुनः समुद्घातप्रतिपमा चतुर्थनान| यवर्तिभवस्थकेवली तेन किं स्पृष्टं लोकस्येति, उच्यते–'सम्यग्दृष्टिना तु सर्वलोक' इति, यतोऽमिहितं-"लोकव्यापी | चतुर्थे तु" तुशब्दोऽवधारणे, सम्यग्दृष्टिनैव समुद्घातं गतेनैव समस्तलोकः स्पृश्यत इति, एतस्मिन् व्याख्याने चोदकोऽयूचुदत्-सम्यग्दृष्टिसम्यग्दर्शनशब्दयोव्युत्पत्तौ क्रियमाणायां भावे कारके नास्त्यर्थभेद इति भवाँचाह-सम्यग्दर्शनेन लोकासंख्येय| भागः स्पृष्टः, सम्यग्दृष्टिना तु सर्वलोक इति, तत् नूनं भवता कश्चिदर्थभेदः परिकल्पित इत्यतः प्रश्नेनोपक्रमते-'सम्यग्दृष्टिसम्यग्दर्शनयोः को विशेष इति ?, मूरिराह-अत्र 'उच्यते', 'अपायसद्रव्ये'त्यादि, अपायो-निश्चयज्ञानं भतिज्ञानांशः सद्र
॥५२॥
U
॥५२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org