SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीतार्थ हरि ॥ ५१ ॥ DCXC_10 कारण, प्रायस्तेषामुपात्तानुयोगद्वारान्तर्गतत्वात् इति, यतो भाषकः पंचेन्द्रियेष्ववतरति, परीत्तोऽपि कायेपु, पर्याप्तस्तेष्वेव, सूक्ष्मसंज्ञिभवचरमाश्च तेष्वेवातो नादृता इति १ । द्वितीयद्वारं छुपन्नाह - ' संख्ये 'ति, संख्या - इयत्ता, सा चैका गणितव्यवहारानुवर्त्तिनी द्वयादिका शीर्षप्रहेलिकान्ता, गणितविषयातीता असंख्येया जघन्यमध्यमोत्कृष्टसंज्ञिताऽपरा, तदिति (व) क्रमेण व्यव स्थिता अनन्ता, सापि जघन्यादिभेदत्रयानुगता अनुयोगद्वारात् विस्तरार्थिनाऽधिगमनीया, य एते सम्यग्दर्शनसमन्विताः सच्चा गत्यादिषु ते कियन्त इति तद्वन्त इह पृच्छयंते, उक्तं चेदं पुरस्ताद्, यतः पृच्छति - 'कियत् सम्यग्दर्शनं' किंपरिमा णास्ते सम्यग्दर्शनिन इत्यर्थः, स्वयमेवोद्धय्यति संज्ञाभिः - सत् 'किं संख्येय' मित्यादि, किं संख्येयमिति किं संख्येयं सम्य|ग्दर्शन राशिमभ्युपगच्छामः उतासंख्येयमथानन्तमिति ?, एवं पृष्टे आह- 'उच्यते असंख्येयानि सम्यग्दर्शनानि' न संख्येया नाप्यनन्ताः, किं तर्हि ?, असंख्येयाः सम्यग्दर्शनिन इति, क्षयसम्यग्दृष्टीन सिद्धान् केवलिनश्च विरहय्य शेषाः संसारवर्त्तिनो याव |न्तः क्षयादिसम्यग्दर्शनिनस्ते निद्दिश्यन्ते असङ्ख्येयानि सम्यग्दर्शनानीत्यनेन, ये तर्हि केवलिनः सिद्धाश्च ते सर्व कियन्त इत्याह'सम्यग्दृष्टयस्त्वनन्ता इति भवस्थकेवलिनः सिद्धां श्राङ्गीकृत्योक्तं सम्यग्दृष्टयस्त्वनन्ता इति २ | द्वारान्तरस्पर्शनेनाह- 'क्षेत्रं'क्षियंति - निवसन्ति यत्र जीवादिद्रव्याणि तत् क्षेत्रम् - आकाशं, ये एतेऽसंख्येयतया निर्द्धारिता अनन्ततया च एभिः पुनः कियदाकाशं व्याप्तमिति संशये सति पृच्छति - 'सम्यग्दर्शनं कियति क्षेत्रे' ननु च सम्यग्दर्शनमेतेन प्रच्छयते, निर्णयोऽपि तस्यैव, सम्यग्दृष्टयस्तु न चोद्यन्ते न निर्णीयन्त इत्ययुक्तम्, उच्यते, इहायं सम्यग्दर्शनशब्दः भावसाधनः सम्यग्दृष्टिः सम्यग्दर्शनं, स | चाप्युभयोर्वाचकोऽभ्युपगन्तव्यः, अपायसद्द्रव्यसम्यग्दर्शननस्तद्वियुतस्य च सिद्धभवस्थ केवलाख्यस्य, निर्णयवाक्येऽप्येवमेव दृश्यं, Jain Education International For Personal & Private Use Only संख्या क्षेत्रं च ॥ ५१ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy