SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० ॥ ४९ ॥ Jain Education International | किमुक्तं भवति ? - सम्यग्दर्शनशब्दवाच्योऽर्थः किमस्ति नास्तीति संशयश्चायं, शब्दो यसत्यपि बाह्येऽथ प्रवर्त्तमानो दृष्टः शशविषाणादौ, सत्यपि च घटादाविति, अत: किमयं सम्यग्दर्शनशब्दः सति बाह्य प्रवृत्तः उतासतीति प्रश्नयति, नूरिराह- 'अस्ति' | विद्यते, सम्यग्दर्शनशब्दवाच्योऽर्थो घटादिशब्दवाच्यवत्, आप्तोक्तः प्रशमादिलिङ्गगम्यश्च, पुनराशङ्कते – 'कास्ती 'ति इति चेत्, | आशङ्कासम्भवश्च गुणः सम्यग्दर्शनं, गुणश्च गुणिपरतन्त्र इति सूरिराह – 'उच्च्यत' इति अत्र विधिरित्याह, अजीवेंषु तावत् | धर्मास्तिकायादिषु नास्ति सम्यग्दर्शनं, जीवगुणत्वात्तस्य, यच्चोक्तं कस्येति स्वामित्वचिन्तायामजीवस्य प्रतिमादेः सम्यग्दर्शन| मिति तदुपचारात्, इह तु मुख्यचिन्ताप्रक्रम इति न तदङ्गीक्रियते, अथ जीवेषु का वार्त्तेत्यत आह- 'जीयेषु तु भाज्यं ' तुशब्द एवकारार्थे, भाज्यमेव, नावश्यंभावि सर्वेषु, भजनां च कथयति – 'तद्यथा गतीन्द्रिये' त्यादिना, गत्यादीनि नान्य| त्रावश्यकादौ प्रपञ्चेनोक्तानि, अशून्यार्थ तु किंचिद् दर्श्यते-गत्यादिषु पूर्वप्रतिपन्नाः प्रतिपद्यमानाश्च सम्यक्त्वं चिन्त्यन्ते, तत्र नरकप्रभृतिगतिषु चतसृष्वपि पूर्वप्रतिपन्नाः प्रतिपद्यमानाथ जीवाः सन्ति, नरकगतौ क्षायिकक्षायोपशमिके स्यातां तिर्यग्गतावप्येते, मनुष्यगतौ त्रीण्यपि क्षायिकादीनि सन्ति, देवगतौ क्षायिकक्षायोपशमिके भवेतां (१) १ । इन्द्रियाणि सामान्येनाङ्गीकृत्य सन्ति | पूर्वप्रतिपन्नाः प्रतिपद्यमानाश्व विकल्पशः, एकेन्द्रियेषु न पूर्वप्रतिपन्नाः न प्रतिपद्यमानकाः, द्वित्रिचतुरिन्द्रियेषु असंझिपंचेन्द्रियेषु च पूर्वप्रतिपन्ना भाज्याः, सास्वादनसम्यक्त्वं प्रति, प्रतिपद्यमानास्तु न सन्त्येव, संज्ञिपञ्चेन्द्रियेषु द्वयमप्यस्ति २। कायान् पृथिव्यादीना| श्रित्य सामान्येन द्वयमप्यस्ति, विशेषेण धरणिजलानलानिलतरुषु द्वयं न सम्भवत्येव, द्वित्रिचतुरसंज्ञिपंचेन्द्रियेषु श्रसेषु पूर्वप्रतिपन्नाः स्युः, नाधुना प्रतिपत्स्यन्ते, संज्ञिपञ्चेन्द्रियत्र सकाये द्वयमपि स्यात् ३। योगेषु मनोवाक्कायेषु सामान्येन द्वयमपि, काययोगभाज For Personal & Private Use Only सप्तदं गत्या दीनि ॥ ४९ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy