SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विधानं हरि० द्वाराणां परस्परेण भेद इति,सम्प्रति भेदकथने प्रवर्तमान एकस्याश्चाभेदरुवेरयुक्त रूपे(क्ता भिन्नते ति मन्यमानः कारणोपाधिकं भेदं श्रीतत्त्वार्थ- दर्शयनाह-हेतुत्रैविध्यात् क्षयादि त्रिविध'मित्यादि, तिम्रो विधा यस्य स त्रिविधो हेतुः, अन्यपदार्थः, त्रिविधस्य भावः | मात्रैविध्य,हेतोस्वविध्यं हेतुत्रैविध्यं तस्माद्धेतुविध्यात् , वर्तमानसामीप्यादिवत् समासः,हेतुत्रैविध्यप्रदर्शनायाह-'क्षयादि त्रिविधं | मासम्यग्दर्शन मिति कार्यनिर्देशःएषः,न च त्रिभिःसम्भृयकं जन्यते मृदुदकगोमयरियोपदेशनकं,किन्तु क्षयेणान्यैव रुचिरात्यन्तिकी | सकलदोषरहिताऽऽविर्भाव्यते,क्षयोपशमेनापि चान्यादृश्येव,तथोपशमेनेति,अतः त्रिविधं सम्यग्दर्शनं यत् कार्य क्षयादिहेतुभिः, के पुनस्ते हेतव ? इति,उच्यते,क्षयादयः, कस्य च क्षयादयोऽत आह-'तदावरणीयस्ये'त्यादिः,तस्य-सम्यग्दर्शनस्यावरणीयम् आच्छादकं शशिलांछनस्येवाभ्रादि तस्य, 'कर्मण'इति पृथग्भूतस्य कर्मणो, न वासनादेः,एतदेव स्पष्टयन्नाह-'दर्शनमोहस्ये'ति,अनन्तानुवन्ध्यादेर्दर्शनसप्तकस्येत्यर्थः, चशब्दः शेषप्रकृत्यानुगुण्यसमुच्चयार्थः, अवधारणार्थ इत्यन्ये, दर्शनमोहस्यैव न पठन्त्येवान्ये, ततश्च तदावरणीयस्य कर्मणो दर्शनमोहस्य 'क्षयादिभ्य' इति क्षयक्षयोपशमोपशमेभ्यस्तद्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, 'क्षयसम्यग्दर्शन'मित्यादि, तदावरणीयस्य कर्मणः क्षयादेरुपजातत्वादेवमभिधीयत इति भावः, अत्र चे' त्यादि, अत्रेति एषु १ क्षयादिसम्यग्दर्शनेषु यथा कार्यभेदोऽभ्युपगतः एवं प्रकर्षभेदोऽभ्युपगन्तव्य इति कथयत्येतचशब्दः, तं च प्रकर्ष दर्शयन्नाह'औपशमिके'त्यादि, पूर्व च क्षयसम्यग्दर्शनं प्रधानत्वादुपन्यस्येदानी प्रकर्षस्य निदर्श्यत्वादन्ते तदुपन्यस्यति, उपशमेन-उद-|| यविधातरूपेण निवृत्तमौपशमिकं, क्षयेण-परिशाटरूपेणोपशमेन च निर्वृत्तं क्षपशमिक, क्षयेण निवृत्तं क्षायिकम् , अत एपामौपश॥४७॥ मिकादीनामिमा रचनामाश्रित्य परस्परस्य विशुद्धिप्रकर्षों-निर्मलता स्वच्छता तच्चपरिच्छेदितेत्यर्थः, औपशमिकं हि सम्यग्दर्शनं | ॥४७॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy