________________
श्रीतत्वार्थ
हरि०
|वसानेति, सोऽशो भावितः, स्थितिरेव सादिरपर्यवसानेति योऽशः स(त) भावयति अनेन 'सम्यग्दृष्टिः सादिरपर्यवसाना || स्थितिः सयोग'इत्यादिना,सह योगैः-मनावाकायलक्षणैः सयोगः केवली, उत्पन्ने केवलज्ञाने यावत् शैलेशी न प्रतिपद्यते तावत् सयोग- विधान केवली, शैलेशीप्रतिपत्तौ तु निरुद्धयोगः, एतदेवाह-शैलेशीप्राप्त 'इति, शिलानां समूहाः शैलास्तेषामीशो मेरुः तस्य भावः शैलेशी, अचलतेतियावत् , तां प्राप्तः, स चेयान् कालो ज्ञेयः-मध्यमया वृत्या पंच हस्वाक्षराण्युच्चार्यन्ते यावत् ,ततः परं सिद्धय| त्येव, एप द्विविधोऽपि केवली सयोगायोगाख्यः भवस्थः साद्यपर्यवसानसम्यग्दृष्टिरुच्यते, सिद्धश्च सर्वकर्मवियुत इति, यतः |सादिरप्यसौ रुचिः न च कदाचिदपैष्यतीति, सम्यग्दृष्टिः सादिरपर्यवसानेति चेत्ययं स्त्रीलिङ्गनिर्देशः भवस्थकेवलिनः सयोगकास्यायोगस्य च सिद्धस्य च तस्य रुचेरनन्यत्वख्यापनाथा, नासौ ततोऽन्येति, अथवा सम्यग्दृष्टिः सादिरपर्यवसाना याभिहिता तामनुभवति सयोगादिरिति ५। सम्प्रति विधानद्वार परामृशन्नाह-विधान'मिति,विधीयते तदिति विधानं-भेदः प्रकार इति, ननु च साधनद्वाररमिहित एव भेदो-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनमिति, किं पुनर्भेद आख्यायते?, उच्यते, तत्र न सम्य| ग्दर्शनस्य भेदः प्रतिपिपादयिषितः, किन्तु निमित्तं, तत्र क्षयादि यदुत्पत्तौ कारणतां प्रतिपद्यते तद्भेदो विवक्षितः, इह तु तेन | |निमित्तेन यत्कार्यमुपजनितं तस्य भेदः प्रतिपाद्यते,एवं च कृत्वा वक्ष्यमाणसंख्याद्वारस्स्यास्य च विधानद्वारस्य (साधनस्य) च स्पष्ट एव | | भेदो निदर्शितः स्यात् , विधानं सम्यग्दर्शनस्य भेदकं क्षयसम्यग्दर्शनमुपशमसम्यग्दर्शनं क्षयोपशमसम्यग्दर्शनमिति, संख्याद्वारे तु तद्वतां भेदः प्रतिपाद्यते,कियत् सम्यग्दर्शनं ,कियन्तः सम्यग्दर्शनिन इत्यर्थः,निर्णयवाक्येऽपि चासंख्येयानि सम्यग्दर्शनानीत्यसिन् असंख्येयाः सम्यग्दर्शनिन इत्यर्थः,मतुपो लोपादभेदोपचारात् अर्शादिपाठाद्वा, तस्माद् युक्तः त्रयाणां साधनविधानसंख्या
एव भेदो-निसर्गानद्वार परामृशमाह-विन्यति, अथवा सम्याश: भवस्थकेवलिन
॥४६॥
॥४६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org