________________
श्रीतत्वार्थहरि०
न्यस्तं स्वयं व्याख्यानयति, सादिसपर्यवसानेति यदुक्तं तस्येदं व्याख्यान-सादिसपर्यवसानमेव सम्यग्दर्शन' यच्चापायसद्रव्यवर्ति तच्च सम्यग्दर्शनमितीह भणति, यच सद्रव्यविरामे अपायसंभवे श्रेणिकादीनां तच्च भणति, कथं च सादीति ?,
स्थितिद्वार | सह आदिना वर्तत इति सादिः, यस्मिन् काले मिथ्यादर्शनपुद्गलान् विशोध्य स्थापयति सम्यग्दर्शनतया तदा सादिः, यदा त्वनन्तानुबन्ध्युदयात् पुनर्मिथ्यादर्शनतया परिणाममानेष्यति क्षपयित्वा वा तान् सम्यग्दर्शनपुद्गलान् केवली भविष्यति तदा | सपर्यवसानं, सह पर्यवसानेन अन्तेन यद्वर्त्तते तत् सपर्यवसानमेव सम्यग्दर्शनं, यदा च दर्शनसप्तकं क्षपयित्वा प्राप्नोति श्रेणि
कादिः स आदिस्तस्य, केवलप्राप्तावन्त इति, तत् पुनः सम्यग्दर्शनं सादिसपर्यवसानं शुद्धदलिकसहवर्तिनी रुचिः कियन्तं कालं | भवतीति यत् पुरस्ताचोदितं तद्भावयन्नाह-तजघन्येने'त्यादि, 'सुप् सुपे'ति समासो भवति, अत्यन्तसंयोगे कालस्य द्वितीया, एतदुक्तं भवति–तथा सम्यग्दर्शनं कश्चिजन्तुवै घटिके तत्परिणाममनुभूय पुनर्मिथ्यादर्शनीभवति केवली वा परतः, एवं जघन्यां स्थितिमाख्यायोत्कृष्टां निरूपयन्नाह-'उत्कृष्टेने त्यादि, उत्कर्षेण कियन्तं कालमास्ते ?, पदक्षष्टिः सागरोपमाणि साधिकानि, तद्भावना-इहाष्टवर्षे सम्यग्दर्शनमधिगम्य समासादितदीक्षः पूर्वकोटि विहृत्य अष्टवर्पोनामपरिच्युतसम्यग्दर्शनः विज| यादीनां चतुर्णामन्यतमस्मिन् विमाने उदपादि स्थितावुत्कृष्टायां, त्रयस्त्रिंशत्सागरोपमस्थितिः, तत्क्षयाच प्रच्युत्य मनुजेषु सहदर्शनः समुत्पन्नः, पुनस्तेनैव प्रकारेण संयममनुष्ठाय तदेव विमानं तावस्थितिकमनुप्राप्तः, पुनः स्थितौ क्षीणायामक्षीणतत्वार्थश्रद्वानः संयमं प्राप्यावश्यतया सिद्धयति, एवं द्वे त्रयस्त्रिंशतौ पट्पष्टिः पूर्वकोटित्रयातिरिक्ता, अच्युतकल्पे वा द्वाविंशतिसागरो
॥४५॥ पमस्थितिः तिम्रो वाराः समुत्पद्यते, ततः परं अवश्यंभाविनी तस्य सिद्धिरिति । यदुक्तं पुरस्तात् 'सम्यग्दृष्टिविविधा-सादिसपर्य-14
॥४५॥
Jan Education international
For Personel Private Use Only