SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० ॥ ४४ ॥ Jain Education International तत्रेत्युच्यते, किन्तु अन्यत्रापि व्यवस्थितमन्यत्रोपदिश्यते, यथा पर्यकस्थो गेहे देवदत्तः, गेहस्थो नगर इति, जीवे सम्यग्दर्शनादी| त्यादयो विकल्पाः पूर्व भाविता एव, इहाप्याधारभेदं केवलमुच्चारयता सर्व तथैव भावनीयं उभयसन्निधानेनाभूताः सद्भूताश्च | षडेव यथोक्ता भङ्गा एव विकल्पाः भङ्गेषु वा विकल्पा इति, अत्राह – स्वामित्वाधिकरणार्थयोर्न कश्चिदर्थभेद इति किमर्थं भेदाभिधानं ?, उच्यते, एकत्र सम्बन्धविवक्षा परत्राधारविवक्षेति, अस्ति चानयोर्भेदः देवदत्तस्य पुत्रो नगरासनादौ तिष्ठतीति यथा ४ । स्थितिद्वारं स्पृशति 'स्थिति' रिति, एतद् विवृणोति 'सम्यर्शनं कियंतं कालमुत्पन्नं सदवतिष्ठते, 'कालाध्वनो' रिति द्वितीया प्रश्नयितुरयमभिप्रायः - प्रागभृत्वा मिथ्यादृष्टेदर्शनमाविश्वकास्ति, यच्चोत्पत्तिमत् तत् सादि सपर्यवसानं दृष्टं मनुष्यादिवत्, किंचित् सादिरपर्यवसानं सिद्धत्वादिवत्, आचार्योऽपि प्रश्नाभिप्रायानुरूपमेवोत्तरमाह - 'सम्यग्दृष्टिद्विविधे' त्यादि, द्विविधेति सादिः सपर्यवसाना सादिरपर्यवसानां चेत्येवं द्विविधा, शोभना दृष्टिः सम्यग्दृष्टिः का च शोभना?, या शुद्धकर्म्मदलिकक्रता या च दर्शन मोहनीयक्षयात् त्रयाणां भवति छद्मस्थस्य श्रेणिकादेरिव, अपरा भवस्थस्यापायसद्रव्यपरिक्षये केवलिनः, अपरा सिद्धस्येति, तत्र या अपायसद्व्यवर्तिनी श्रेणिकादीनां च सद्रव्यापगमे भवति अपायसहचारिणी हा सादिसपर्यवसाना, यस्मिन् काले श्रेणिकादिभिर्दर्शनमोहसप्तकं क्षपयित्वा रुचिराप्ता स आदिस्तस्याः, यदा त्वपायः - आभिनिबोधिकमपगतं भविष्यति केवलज्ञान उत्पन्ने सोऽन्तोऽस्याः सम्यग्दृष्टेः, एतदाह-- 'सादिसपर्यवसाने' ति, या तु भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमोहनीयम कक्षयादपायसद्रव्यक्षयाच्चोदपादि सा सादिरपर्यवसानेति यस्मिन् काले दर्शनमोहनीयं क्षपयित्वा प्राप्ता स आदिस्तस्याः, एवमेतत्तत्त्वमित्येवंविधा या रुचिः सा न कदाचित् तस्यापेष्यतीति, एवं यथाक्रममुप For Personal & Private Use Only स्थितिद्वारं ॥ ४४ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy