________________
श्रीतच्चार्थहरि०
॥ ४३ ॥
Jain Education International
आत्मा वा यत् समवेतं दर्शनं मुख्यतः, उपचारात् परत्र भवति, यत्राश्वादौ सम्यग्दृष्टिर्व्यवस्थितः तस्मिन्नपि तत्, उभयविवक्षायां | चोभयत्र तत् आत्मनि परत्र च एतदेव त्रैविध्यं दर्शयन्नाह - आत्मसन्निधानेनात्मन्येव स्थितमित्यर्थः परसन्निधानेन परत्र स्थितमिति, आत्मस्थमपि तदस्मिन पक्षे न विवक्ष्यते, उभयसभिधानेनात्मनि परत्र चेति वाच्यं, आत्मसम्भिधानमिति चास्यार्थे सुहृद्भूत्वा कथयति - आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः, आत्मैवाधार आत्मसन्निधानं, प्रसिद्धतरेण स (ख) शब्देनाभ्यन्तरसनिधानमिति व्यपदिष्टं, आन्तरः- आसनस्तस्य सम्यग्दर्शनस्येति, परसन्निधानमिति चास्यार्थं विवृणोति - 'बाह्यसन्निधानं 'बाह्यम्आसनादि, यत्रस्थस्य सम्यग्दर्शनभाव इति, एवमुभयभावना कार्या, अधुनाऽऽधारे त्रिविधे कथिते परस्यैतदेव सन्देहकारणं जातं
क तर्हि सम्यग्दर्शनमिति १, पृच्छति - 'कस्मिम् सम्यग्दर्शनं' अथवा अन्यथा प्रश्नः सम्यग्दर्शनमित्येष गुण (: त) स्य भावस्य आश्रयेण भवितव्यं, स पुनराश्रयः किमभ्यन्तर आत्मा उत बाह्यं प्रतिमादि वस्तु यदुपष्टम्भेनोपजातं ! उतोभयमिति प्रश्नित आह| 'आत्मसमिधाने तावदि' त्यादि, आत्माधारविवक्षायां जीवे सम्यग्दर्शनं, तस्य अन्यत्रादर्शनात्, यथा सम्यग्दर्शन मेवं ज्ञानचारित्रे अपीति, एतदाह- 'जीवे ज्ञानं जीवे चारित्र' मिति, न च ज्ञानदर्शनचारित्राणि विरहग्य अन्यो जीवोऽस्तीति, काल्पनिकमुपदिशति, कथं १, यदा तावजीवे सम्यग्दर्शनं तदा ज्ञानचारित्रे आधारभावं प्रतिपद्येते, ज्ञानचारित्रात्मनि जीवे सम्यग्दर्शनं यदा जीवे | ज्ञानं तदा दर्शनचारित्रयोराधारता, यदा जीवे चारित्रं तदा ज्ञानदर्शनगोचरात् चारित्रमाधेयमिति, 'एतदादी 'ति एतानि ज्ञानादीनि आदिर्यस्य गुणान्तरस्य तदेतदादि, तदपि जीवे आधारे दृश्यं भव्याभव्यत्वादि 'बाह्यसन्निधानेन जीवे सम्यग्दर्शन 'मित्यादिना, ननु चात्मन्येवोपलभ्यत इत्युक्तं कथमिदानीं परस्मिन्नपि व्यपदिशति ?, उच्यते, न यदेव यत्राविभागेनावस्थितं तदेव
For Personal & Private Use Only
सम्यर्शनस्य आधारः
॥ ४३ ॥
www.jainelibrary.org