________________
श्रीतार्थहरि०
॥ ४२ ॥
Jain Education International
| एतत् कथयति न तावेव निसर्गाधिगमौ तादृशीं रुचिं जनयतः, किन्तु निसर्गाधिगमाभ्यां क्षयोपशमादयः कर्मणां जन्यन्ते, ततः क्षयोपशमादेः सम्यग्दर्शनं भवति, तावपि च निसर्गाधिगमौ कर्मणां क्षयोपशमादेरेव भवतः, ततस्ताभ्यामुत्तरोत्तरं क्षयोपशमं विशुद्धं विशुद्धतरमापादयमानाभ्यां यदा प्रतिविशिष्टः क्षयोपशमः आपादितो भवति तदा तस्मात् प्रतिविशिष्टात् क्षयोपशमात् सम्यग्दर्शनं भवतीति कथयति, तत्र निमग्गे बहु वक्तव्यमिति प्राक् तद्दर्शितमेव, एकेन च वाक्येन न शक्यं तत् समस्तं दर्शयितुमि - त्यतिदिशति - 'तत्र निसर्गः पूर्वोक्तः', अधिगमोऽल्पविचारत्वादेकेन वाक्येन, समस्ताधिगमोपसंहार भावादाह--'अधिगमस्तु सम्यग्व्यायाम' इति, गुर्व्वादिसमीपाध्यासिनः शुभा क्रिया सम्यग्दर्शनोत्पादने शक्ता सा सम्यग्व्यायाम इत्युच्यते, 'उभयमपी'त्यादि, उभयमपीति-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं, तौ च निसग्र्गाधिगमावुभावपि, कथं भवतः ?, अत आह—'तदावरणीयस्येत्यादि, तस्य तवार्थश्रद्धानलक्षणस्य सम्यग्दर्शनस्य यदावरणीयम् - अनन्तानुबन्ध्यादि कर्म तस्य कर्म्मणः क्षयेण उक्तलक्षणेनोपशमेन च क्षयोपशमाभ्यामिति च प्राप्यत इति । अत्र कश्चिदाह तदावरणीयस्येति तत्त्वार्थ श्रद्धानलक्षणज्ञानावरणीयं गृह्यते, | ज्ञानावरणीयवर्जिते कर्मणि प्राय आवरणीयव्यवहाराभावात्, अत एव दर्शनं ज्ञानमिति, एतच्चायुक्तं,ज्ञानावरणीय स्योपशमाभावात्, | स्यादेतत्, सत्यमेतत्, किन्तु मोहनीयोपशमात् यो ज्ञानावरणीयक्षयादिः ततः सम्यग्दर्शनमिति, तदप्ययुक्तं, उपशमेनेति पक्षान्तरोपन्यासानुपपत्तेः, हेतोः फलात् पूर्वमुपादानात् अतिप्रसङ्गाच्च, साताद्युदयादपि क्वचिद् ज्ञानावरणीयक्षयादिभावादौदयिकप्रसङ्गादिति यत्किंचिदेतत् तस्मात् सम्यग्दर्शना वारक भित्यनेनानन्तानुबन्ध्याद्येव तदावरणीयमुक्तमिति न दोषः ३ । सम्प्रत्यधिकरणद्वारं परामृशति - 'अधिकरण 'मिति, अधिक्रियते यत्र तदधिकरणं आधारः - आश्रय इति, स च आधारस्त्रिविध:
For Personal & Private Use Only
साधनं
क्षयादि
॥ ४२ ॥
www.jainelibrary.org