SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ mal श्रीतच्यार्थ-I आत्मपरसंयोगी हरि० द्रव्यादिपश्चकमुररीकृत्य प्रादुरस्ति, अतो बहिरवस्थितस्य साधोरुत्पादयितुः सा रुचिःखं,कुम्भकारकास्येति, एवमेकमजीवाख्यं । | पदार्थ प्रतिमादिकं प्रतीत्य यदा क्षयोपशमः समुपजायतेऽतस्तदा तस्यैवाजीवस्य सम्यग्दर्शनं नात्मन इति,यदा पुनद्वौं साधू निमित्त क्षयोपशमस्य विवक्षितौ नात्मा तदा जीवयोः सम्यग्दर्शनं, यदा पुनरजीवी प्रतिमाख्यावुभौ निमित्तीकृतौ तदा तयोः स्वामित्वविवक्षायां तत् सम्यग्दर्शनमिति, यदा पुनर्बहवो जीवाः साधवस्तस्योत्पत्ती निमित्तं भवन्ति तदा जीवानां सम्यग्दर्शनं, न तु यत्र समवेतमिति, यदा पुनबह्वीः प्रतिमा भगवतां दृष्ट्वा तत्त्वार्थश्रद्धानमाविर्भवति तदा च तासामेव तत्कर्तृकत्वात् नात्मन इति, 'उभयसंयोगेने ति यदाऽऽत्मनोऽन्तरङ्गस्य बहिरङ्गस्य च साधादेस्तद्विवक्ष्यते तदा उभौ तस्य सम्यग्दर्शनस्य स्वामिनौ भवतः इत्युभयसंयोगोऽभिधीयते, अत्र च लापविक आचार्यों हेयान् विकल्पानादर्शयति, आदेयाः पुनरुपात्तव्यतिरिक्ताः, अयं तावदत्र | विकल्पो न सम्भवति-जीवस्य सम्यग्दर्शनमिति, यतोऽनेन षष्ठयन्तेन सम्यग्दर्शनस्य यः समवाय्यात्मा स वा भण्यते बाह्यो वा | तीर्थकरादिः यमवलोक्य स तादृशः परिणतिविशेषः समुदभूदिति ?,तत्र यद्यात्मा समवायी संबध्यते नास्ति तदा परस्य सम्बन्धः, उभयसंयोगेन चैतश्चिन्त्यते, अथवा यदि तीर्थकरादिरभिसम्बध्यते तदा नात्माभिसम्बन्धः, अतः त्याज्य एवायं विकल्पः, एवं नोजीवस्येति, अजीवस्येत्यर्थः, एकस्याः प्रतिमायाः विवक्षितत्वादुभयसंयोगाभाव इति हेयो विकल्पः, तथा जीवयोः सम्यग्द-|| निमिति न सम्भवति, यस्माद्वा तत्र समवायिनौ पुरुपौ स्वामितया विवक्षिती, मम च सम्यग्दर्शनमस्य च सम्यग्दर्शनमुत्पन्नमिति, यतस्तु तदालम्ब्योत्पत्रं तस्याविवक्षितस्वामितया उत्पादनिमित्तयोश्चोभारांगोगो विवक्षितः अतस्त्यज्यते, तथा अजीवयोः | सम्यग्दर्शनमिति, द्वयोः प्रतिमयोरालम्बनी कृतयोभदेन तद्विवक्षितं, यत्र तु समवेतं तत्राविवक्षा, अतस्त्यज्यते अयमपि विकल्पः ॥४०॥ ॥४०॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy