________________
श्रीतच्चार्थहरि०
॥ ३९ ॥
Jain Education International
दार्थावलोकिनी दृष्टिर्यस्य स क्षीणदर्शनमोहनीयस्य सम्यग्दृष्टिर्जीव इति, एतदुक्तं भवति क्षीणे दर्शनमोहनीये न सम्यग्दर्शनी भण्यते, किं तर्हि ?, सम्यग्दृष्टिरेवेति, अतः सिद्धसाध्यतेतिभावः, स पुनः क्षीणदर्शनमोहः किं रूपी ?, नेत्याह- 'अरूपी' अविद्यमानं रूपमस्येत्यरूपी, सर्वधर्मादिषु क्षेप्यः, नासौ रूगादिधर्म्मसमन्वितः, अमूर्त आत्मेति, छद्यस्थकेवलिनोर्यद्यपि कर्म्मपदलोपरागस्तथाप्यात्मा न स्वभावमपजहाति, आगंतुकं हि कर्म्मरजो मलिनयत्यात्मानमभ्रादिवच्चन्द्रमसं, सिद्धास्तु सर्वथाप्यरूपा एव स एव सम्यग्दृष्टिः | इदानीमाशंक्येत- किं स्कन्धो ग्राम इति, तन्निरासायाह- 'नो स्कन्धः' अरूपत्वादेव न स्कन्धः - पुद्गलादिरूपः, स्वप्रदेशाङ्गीकरणातु स्यात् स्कन्धः, अथवा पंचास्तिकायसमुदिताः स्कन्धः, नोशब्दस्य तद्देशवाचित्वान्नोस्कन्धः सम्यग्दृष्टिः, एवं नोग्रामोऽपि वक्तव्यः, चतुर्द्दशभूतग्रामैकदेशत्वात् सम्यग्दृष्टेरिति । सम्प्रति स्वामित्वशब्दोच्चारणात् स्वामीत्यनेन 'कस्य'स्वामिनः सम्यग्दर्शनमिति, उद्देशवाक्यमेवं कृत्वा प्रवृत्तं — कियत्समवाय्येतत् ?, तस्यैवैतत्तदुक्तं, तदुत्पत्तिनिमित्तभृतस्यान्यस्यापि व्यवहारार्थमाश्रीयते ? इति, उच्यते, मुख्येन तावत् कल्पेन यद् यत्र समवेतं तत् तस्यैवेति, व्यवहारार्थं तु निमित्तभूतस्याप्याश्रीयते, एतदाह'आत्मसंयोगेने 'त्यादि, आत्मसंयोगेन - आत्मसम्बन्धेन, यदा ह्युत्पद्यमानस्य सम्यग्दर्शनस्य परतोऽपि निमित्तात् प्रतिमादिकात् नापेक्षा क्रियते प्रतिमादेस्तदाऽसौ परिणाम आत्मनि समवेत इतिकृत्वा स एवात्मा तेन परिणामेन तानि तत्त्वा न्येवमभिमन्येत अत आत्मसंयोगेन जीवस्य सम्यग्दर्शनं, जीवस्य स्वामिनः सम्यग्दर्शनं रुचिरिति, 'परस योगेने 'ति परं साधुप्रतिमादि वस्तु तन्निमित्तीकृत्य श्रद्धानपरिणाम उपजायते ततः स परिणामस्तत्कर्तृक इति तस्य व्यपदिश्यते, अत्र परसंयोगे पड् | विकल्पा भवन्ति - जीवस्येत्यादयः, यदाऽस्य जन्तोः परमेकं मुनिमालम्ब्य क्रियानुष्ठानयुक्तं सा रुचिरुपजायते, क्षयोपशमोहि
For Personal & Private Use Only
सम्यग्दर्श नपरीक्षा
आत्मपर
संयोगौ
॥ ३९ ॥
www.jainelibrary.org