________________
श्रीतत्वार्थहरि०
| स्वामित्वादीनि
नापि केवला भावाः, उभयमित्यर्थः१। स्वामित्वादयो जीवेऽभ्युह्या अनया दिशेति न दर्शितवान् ,वयं तु दर्शयामः,स्वामी-प्रभुस्तद्भावः स्वामित्वं,जीवो हि कस्य प्रभुः ?, जीवस्य वा के स्वामिन ? इति,उच्यते,जीव एकोऽवधी(ऽधि)कृतः धर्मादीनामस्तिकायानां स्वामी, यतः सर्वेषु मूळ यात्युपलभते परिभुंक्ते शरीरतया वाऽऽदत्ते अतः सर्वेषां जीवः स्वामी, जीवस्यापि जीवाः अन्ये तन्मू
र्छाकारिणः स्वामिनो भवन्ति २। साध्यते येन तत् साधनं,केन चात्मा साध्यते ?,उच्यते,नान्येनासौ,सततमवस्थितत्वात् ,बाह्यान वा पुद्गलानपेक्ष्य देवादिजीवस्तैः साध्यत इति, तैः स्वस्थानं नीयत इतियावत् ३। अधिकरणमाधारः, कस्मिन्नात्मा ?, निश्चयस्य स्वात्मप्रतिष्ठत्वात् आत्मनि, व्यवहारस्य शरीराकाशादौ स्थितः, आत्मरूपादनपगमः ४। कियन्तं कालमेप जीवभावेनावतिष्ठते ?,भव (चक्र)मङ्गीकृत्य सर्वस्मिन् काले,देवादीस्तु भवानङ्गीकृत्य यावती यत्र स्थितिस्तावन्तं कालं तत्रावतिष्ठत इति ५। विधानं प्रकारः,कतिप्रकारा जीवाः ?,सस्थावरादिभेदाः,एवं शेषा अपि सिद्धान्तानुसारिण्या धिया अवलोक्य पारमार्ष प्रवचनं वाच्याः,ग्रन्थगौरवभयात्तु नादिद्रिये भाष्यकारः, तथा यदर्थ शास्त्रप्रवृत्तिस्तत्रापि योजनां निर्देशादीनां कुर्वन्नाह–'सम्यग्दर्शनपरीक्षाया'मित्यादि, यदा सम्यग्दर्शनं परीक्ष्यते तदापि सम्यग्दर्शनं किं गुणः ? क्रिया ? द्रव्यमिति पृष्टे निर्देशा भवन्ति, उच्यते-द्रव्यं, कथं ?, ये जीवेन शुभाध्यवसायविशेषेण विशोध्य पुद्गलाः प्रतिसमयमुपभुज्यन्ते अतस्ते सम्यग्दर्शनस्य निमित्तं, तदुपष्टम्भजन्यत्वात् तचार्थश्रद्धानपरिणामस्य, ततश्च कारणे कार्योपचारात् द्रव्यं सम्यग्दर्शनं, मुख्यया वृत्या तु तवार्थश्रद्धानरूप आत्मपरिणामः, सोऽपि नात्मव्यतिरिक्त एवेति द्रव्यमित्युक्तं, आह—यदि यथोक्ताः पुद्गलास्तदुपष्टम्भजन्यो वाऽऽत्मपरिणामः सम्यग्दर्शनं न तर्हि क्षीणदर्शनमोहनीयस्य छद्मस्थकेवलिसिद्धजीवस्य सम्यग्दर्शनमित्युक्ते आह-'सम्यग्दृष्टिीव'इति सम्यक्-शोभना सदसत्प
॥३८॥
।।३८
Join Education International
For Personal Private Use Only
www.jainelibrary.org