________________
श्रीस्वार्थहरि०
।। ३६ ।।
Jain Education International
यत्नः, 'द्विविध' मित्यनेन संख्यानियममाह, द्विविधमेव, न त्रिविधादि, द्वैविध्यमेव दर्शयति-' परोक्षं प्रत्यक्षं च वक्ष्यत | इति, पराणि-द्रव्येन्द्रियाणि मनश्च तन्निमित्तं ज्ञानं परोक्षमित्यादि, धूमादग्निज्ञानवत्, प्रत्यक्षं पुनरश्नात्यश्नुते वाऽर्थानित्यक्ष:| आत्मा तस्याक्षेन्द्रियमनांसि अनपेक्ष्य यत् स्वत एवोपजायते तत् प्रत्यक्षम् - अवध्यादि, चशब्दः स्वगतानेकभेदसमुच्चयार्थः, एतच्च वक्ष्यत उपरिष्टात् " इत्थमुपन्यासे चैवमेवानयोर्भाव इति प्रयोजनं " 'चतुर्विधमित्येके' इति चतुर्विधं प्रत्यक्षानुमानोपमानागमभेदेन एके सूरयो मन्यन्ते कथमित्याह- 'नयवादान्तरेण' यतः केचि भेगमादयो नयाश्चतुर्विधमभ्युपयन्ति, अत एवानुयोगद्वारेषु चतुर्विधमुपन्यस्तमिति एतच्च यथा अवस्थितं चातुर्विध्यं तथा भाष्यकार एवोत्तरत्र दर्शयिष्यति । एवं | प्रमाणावयवं निर्भिद्य व्युत्पत्यादिद्वारेण नयावयवं विभजयन्नाह - 'नयाचे 'त्यादि, नयन्तीति नयाः, अनेकधर्मात्मकं वस्तु एक| धर्मेण नित्यमेवेदमनित्यमेवेति वा निरूपयंतीत्यर्थः, एते च पञ्च नैगमादयो वक्ष्यन्त उपरिष्टात्, अत एव सर्वनयावलंवि नः प्रमाणं ज्ञानी (नं), अमीषां भेदेनाभिधानं, तथाहि प्रमाणं समस्तवस्तुस्वरूपपरिच्छेदात्मकं भत्यादीति, अतः प्रमाणं सम्यग्ज्ञानं, नयास्तु मिथ्याज्ञानं, यत आह- ' एवं सवेऽपि नया मिच्छादिही त्यादि, एवं च कृत्वा प्रमाणशब्दस्याभ्यर्हितत्वात् सूत्रे पूर्वनिपात इति न चोयावकाशः । अपरे वर्णयन्ति परस्परापेक्षया नैगमादयो नया इति व्यपदिश्यन्ते अध्यवसायास्तैः परस्परापेक्षैज्ञानि समस्त वस्तुस्वरूपालंबनं जन्यते, तदनवगतवस्तुपरिच्छेदाभ्युपायत्वात् प्रमाणं, ये पुननैगमादयो निरपेक्षाः परस्परेण ते नयाभासा | इति ॥ ' किंचान्य' दित्यनेनोत्तरसूत्रं सम्बन्धयति, नैतावतैव विस्तराधिगमस्तस्थानां यतोऽन्यदपि विस्तराधिगतौ कारणमस्ति, किं तत् ?, निर्देशादि के पुनर्निर्देशादय इत्युक्त आह—
For Personal & Private Use Only
प्रमाणनयाः
॥ ३६ ॥
www.jainelibrary.org