________________
प्रमाणनयाः
श्रीतच्चार्थहरि०
प्रमाणनयरधिगमः ॥६॥ सूत्रं।
प्रमाणनयैः करणभूतैर्वक्ष्यमाणलक्षणैरधिगमो भवति जीवादीनामिति सूत्रसमुदायार्थः, अवयवार्थाभिधित्सयाऽऽह भाष्यकारः | |-'एषा'मित्यादि (पृ-९-१०) प्रक्रमप्रदर्शितानां जीवादीनां तत्त्वानामिति पूर्वपद् व्याख्या, 'यत्तद्दिष्टाना'मिति यथापरि| पाट्या सामस्त्येनाभिहितानां 'नामादिभिय॑स्ताना' मिति नामादिसूत्रे नामस्थापनादिभिर्भेदैनिक्षिप्तानां, एतदेव स्पष्टयति,
अधिगमो (मे) पर्यायार्थमुपक्षिप्तानामित्यर्थः, अनेको जीवशब्दवाच्योऽर्थ इति यथाप्रयोजनं तद्विशेषाधिगमाय न्यस्तानामिति | भावः, किमित्याह-'प्रमाणनयै' रित्यादि, प्रमाणनयः-ज्ञानविशेषरूपैः 'विस्तराधिगमो भवति' एकैकस्य तत उद्घटना
दपकृष्टस्य विस्तरेण-लक्षणविधानाख्येन 'अधिगमः' परिच्छेदो भवति, एतदुक्तं भवति-यदा अधिगमः तदा न प्रमाणनया| विरहा (हय्य) इति, प्रमाणसंख्यानियमायाह-'तत्र प्रमाण'मित्यादि, 'तत्रे'ति वाक्योपन्यासार्थः, प्रमीयतेऽनेन तधमिति प्रमाणं, करणार्थाभिधानः प्रमाणशब्द इति, आत्मा सुखादिगुणकलापोपेतो मत्यादिना साधकतमेनावबुध्यते विषयमित्यर्थः, आह-यदि तेन करणभूतेनावबुध्यते आत्मेति तीनवबोधक्रियाप्रमाणत्वे एवमवयोधात्मकमेवेत्यनिष्टावाप्तिः, नैतदेवं, स्वपर्यायस्यैव करणत्वात् , तस्य कथंचित् ततोऽव्यतिरेकात् , अन्वयव्यतिरेकयोगेन चित्रस्वभावत्वात् , तेन करणभूतेनात्माऽवयुध्यत | इत्युपपत्रं, तथाहि-भिन्नः ग्राह्यग्रहणस्वभावः क्रियायाः कथंचित् अभिन्न आत्मा तच्चतः प्रमाण, तदत्र शाब्दं न्यायमधिकृत्योपसर्जनीकृतक्रियावक्रियाभिधायी प्रमाणशब्दः, तदभेदाचात्मावबोध इति न कश्चिद्दोपः, एवं कर्तृसाधनादिपक्षेष्वपि प्रमि| णोति-अवगच्छतीति प्रमाणमित्येवमादिष्वमिहितार्थानुसारतो भावना कार्या, मुख्यस्त्वयं प्रमाणशब्दः करणसाधन एवेति नात्र
॥३५॥
Jan Education international
For Personal Private Use Only