SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ इरि० १०अध्या० mainstrengtonmushti am: | भावप्रज्ञापनीयस्य अवेदो विगतलिंगः सिद्धयति,लिंगं वेद इत्येकोऽर्थः,पूर्वभावप्रज्ञापनीयस्य तु अनन्तरपश्चात्कृतगति-IN क्षेत्रादिमिः |कस्य, अनन्तरपश्चात्कृतलिंगस्येत्यर्थः, गतौ चतुर्विधायां नियमेन लिंग, लिंगे चावश्यंभाविनी गतिरिति लिंगशब्दो नोच्चरितः, | अविनाभावाद् यदेवानंतरं पुल्लिंगं स्त्रीलिंग नपुंसकलिंगं वा एकमेव, एकान्तरपश्चात्कृतगतिकस्य चेत्यत्रापि गतिशब्दो विचार: | लिंगवाची, एकेनान्तरेण लिंगेन पश्चात्कृतानि शेषलिंगानि येन तस्य, त्रिभ्योऽपिलिंगेभ्यः सिध्यति। तीर्थमित्यत्र (२२०-४) संतीति विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवनपूर्वकाः सिद्धाः तीर्थकरसिद्धाः, ते च तीर्थकरतीर्थे तीर्थकरेण प्राक् प्रवर्तितं तीर्थ तमिन् सति पुनः स एव तीर्थस्य प्रवर्त्तयिता तीर्थकरः सिध्यति, नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः, ते च तीर्थ| करतीर्थे, अतीर्थकरसिद्धाः सावधः तीर्थकरतीर्थे, एवमुक्तेन प्रकारेण तीर्थकरीतीर्थे सिद्धा अपि वाच्याः, तीर्थकरीतीर्थतस्तीर्थकरी सिद्ध्यतीत्यादि । लिंगे पुनरन्यो विकल्प उच्यते (२२०-६) ननु च पूर्वमेवोपन्यसनीयः स्यात् , सत्यमेव, क्षम्यतामिदमेकमाचार्यस्य, त्रिप्रकारं लिंगं द्रव्यलिंग भावलिङ्गं अलिङ्गमिति, तत्र प्रत्युत्पन्नग्राहिणो नयस्य शुद्धस्यालिङ्ग एव || सिद्धयति, यतो द्रव्यलिङ्गन संभवत्येव, द्रव्यलिङ्ग त्रिविध-रजोहरणमुखयस्त्रिकाचोलपट्टकादि स्थलिज, अन्यलिङ्ग भौतपरिवाजकादिवेषः, गृहिलिङ्गं दीर्घकेशकच्छबंधादि, तदेवंविधं द्रव्यलिङ्गं भाज्यं, कदाचित् सलिङ्गः कदाचिदलिङ्ग इति, भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि, तत्र किंचिदनुयायि किंचिन्निवर्त्तते, श्रुतं नास्ति सिद्धे, क्षायिकसम्यक्त्वं तु विद्यते, चरणमपि १ नवमेऽध्याये पुलाकादिनिग्रन्थेषु तीर्थादनन्तरं लिंगद्वारमिति तीर्थानन्तरं लिंगद्वारपरामर्शः,वेदरूपलिंगानां तीर्थात् प्राग्भावेऽपि ॥५२४॥ स्वलिंगस्य तीर्थे एवोत्पादात् नेपथ्यरूपलिंगस्य तीर्थद्वारानन्तरं चिन्त्यता स्यात् ॥५२४॥ For Personal P U Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy