________________
श्री तत्वार्थहरि० १० अध्या०
॥५२५।।
Jain Education International
सामायिकादि व्यावर्त्तत एव, पूर्व भावप्रज्ञापनीयस्य भावलिंगं श्रुतादिकं स्वलिंगं तत्रस्यः सिद्धयति, संक्षेपतस्तु सर्वो भावलिंगप्राप्तः सिद्धयतीति नियमः ॥ चारित्रमिति (२२० - १२) वर्त्तमानग्राहिणो नयस्य नोचारित्री सिद्धयति, नोशब्दः सर्वत्र प्रतिषेधे, नास्त्यस्य चारित्रं सामायिकादि, नोअचारित्री द्वौ नञौ प्रकृतमर्थं गमयत इत्यपि वक्तुं न शक्यते, तस्मान्न विरतो नाविरत इति, पूर्व भावप्रज्ञापनीयो द्विधा- अनन्तरस्य पश्चात्कृतिः - पश्चात्करणं यत्रासावनंतरपश्चात्कृतिको नयः, अस्य तु यथाख्यातचारित्री सिद्धयति, इतरस्य तु व्यंजिते व्यक्तिमापादिते स्पष्टीकृते विशेषिते अभ्यंजिते-सामान्यमात्रेऽविशेषिते वक्तव्यं, तत्राव्यंजिते त्रिचतुः पंचचारित्रपश्चात्कृतिकः सिध्यति, अविशेषितमिदं, कानि त्रीणि चारित्राणि चत्वारि पंच वा १, अतो व्यंजिते सामायिकं सूक्ष्मसंपरायं यथाख्यातं च, अथवा छेदोपस्थाप्यं सूक्ष्मसंपरायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयं, चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानं, पंचचारित्रस्यैक एव विकल्पः । प्रत्येकबुद्धसिद्ध (२२१-८) इति चतुर्द्धा व्याख्यायते - तीर्थकरः | प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति, तद्यथेत्यादिना दर्शयति, अस्ति स्वयंबुद्धसिद्धः स्वयमेव बुद्धो नान्येन बोधितः, स द्विविधः - तीर्थकरोऽर्हन् तीर्थकरनामकम्मोंदयभाकू, तथा परः प्रत्येकबुद्ध सिद्धः प्रत्येकमेकमात्मानं प्रति केनचिनिमित्तेन | संजातजातिस्मरणादिना वल्कलचीरिप्रभृतयः करकण्ड्रादयश्च प्रत्येकबुद्धाः, बुद्धबोधितोऽपि द्विविधः- युद्धेन ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः, परबोधकः परस्मायुपदेशं ददाति, अपरः पुनः स्वस्मै हितं इष्टं स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मायुपदिशति किंचिदिति चतुर्थो विकल्पः, एते चत्वारोऽपि विकल्पद्वयमनुप्रविशंति, तत्र स्वयं बुद्धसिद्धे तीर्थकरः | १ यद्यपि सामायिकमन्तरा न छेदोपस्थाप्यसंभवः तथापि मूलानवस्थाप्यादिना तद्विनाशे त्रिचतुश्चरित्रविकल्पयोरुत्तरविकल्पसंभवः
For Personal & Private Use Only
क्षेत्रादिभिः सिद्ध
विचारः
।।५२५ ।।
www.jainelibrary.org