________________
क्षेत्रादिमिः
श्रीतत्त्वार्थ-
हरि० १.अध्या०
सिद्ध
विचार:
| अविरतसम्यग्दृष्टिरपीति, अमी पुनर्न जातुचित् संहियंते-श्रमणी संयतीत्यर्थः अपगतवेदः क्षपितवेदः परिहारविशुद्धि
संयतः उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दशपूर्वधरः आहारकशरीरीति एते सप्तापि न संहियंते, | आगमेऽपि "समणिं अवगतवेदं परिहारपुलागमप्पमत्तं च । चोइसपुष्विं आहारगं च नवि कोऽवि संहरति ॥१॥" ऋजुसूत्रनयः शब्दादयश्च त्रयः शब्दसमभिरूद्वैवंभूताः प्रत्युत्पन्नभावप्रज्ञापनीयाः वर्तमानार्थग्राहिणः शेषा नैगमादयो नया उभय-| भावं प्रज्ञापयंत्यतीतं वर्तमानं चेति, कालत्रयाभ्युपगमादिति । काल इत्यत्रापि तदेव नयद्वयं, कस्मिन् काले सिध्यतीति ?, तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले अविद्यमानकाले ईषत्प्राग्भारोपलक्षितगमने सिध्यति, न च तत्र कालः समस्ति, ततश्च तत्र सिध्यति, इतरस्य तु जन्मनः संहरणतच, तत्र जन्मतोऽवसर्पिण्यादिपु त्रिष्वपि जातः सिध्यति, एवं तावद| विशेषतः, सामान्येनेत्यर्थः, विशेषतस्तु अवसर्पिण्या सुषमदुष्पमायां तृतीये कालविभागे संख्येयेषु वर्षेषु शेपेषु जातः सिद्धथति, | | दुष्षमसुषमायां सर्वस्यां चतुर्थे कालविभागे सर्वत्र सिद्धयति, दुष्षमसुषमायां जातो दुष्षमायां पंचमे कालविभागे | सिद्धयति, नतु दुष्पमायां जातः कदाचित् सिद्धयतीति, अन्यत्रेत्यतिदुष्पमायामपि जातो नैव सिध्यति, संहरणं प्रति संहरणं | विवक्ष्यते यदा तदा सर्वकालेषु अवसर्पिण्यादिषु त्रिष्वपि सिध्यतीति । गतिद्वारे प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां सिध्यति, नान्यस्यां गतौ, शेषास्त्रिकालविषया नया द्विप्रकाराः-अनन्तरपश्चात्कृतगतिका एकान्तरपश्चात्कृतगतिकाश्चेत्यनन्तरा पश्चात्कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिद्धथति, एकान्तराः पश्चात्कृता गतयो येन तस्यापि अविशेषेण सर्वग
| तिभ्यः सिद्धथति, एकया मनुष्यगत्या अन्तरिताः-पश्चात्कृताः नरकादिगतयो येनेत्यर्थः। लिंगं स्यादि (२२०-१) तत्र प्रत्युत्पन्न
॥५२३॥
|५२३॥
Jan Education international
For Personel Private Use Only