SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ क्षेत्रादिभिः सिद्धविचारः लिङ्ग पुंखीनपुंसकाख्यं, अथवा द्रव्यलिङ्गं भावलिंगमलिङ्गमिति । तीर्थमिति तीर्थकरत्वं प्राप्य सिद्ध इत्यादि विकल्पं । चारित्रं श्रीतस्वार्थ-| हरि० सामायिकादि मूलगुणोत्तरगुणभेदं । प्रत्येकबुद्धबोधितः स्वयंबुद्धसिद्धादिभेदं । ज्ञानं मतिश्रुतादिभेदं। अवगाहन मिति शरीराव१.अध्यागाहग्रहणं । अन्तरमेकसमयादिकं षण्मासान्तं । सङख्येत्येकस्मिन् समये कियंतः सिध्यन्तीत्यादि। अल्पबहुत्वमिति क्षेत्रसिद्धा धन्तःपातिनां परस्परं चिन्त्यते, एतानि द्वादशानुयोगद्वाराणि सिद्धस्स सिद्धत्वलाभे कारणानि भवन्ति, एतदेव स्पष्टयति'एभि 'रित्यादि भाष्यं, तत्र-असिन् सिद्धव्याख्याने कर्तव्ये द्वौ नयौ पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च | | पूर्वम्-अतीतं भावं प्रज्ञापयतीति,प्रत्युत्पन्नभावप्रज्ञापनीयः। नगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ, एतेपामेव वाचोयुक्ति| भेदेन ग्रहणम् । तत्र नैगम-सङ्ग्रह-व्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः। ऋजुसूत्र-शब्द-समभिरूढैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः। तत्कृतः -ताभ्यां कृतोऽनुयोगविशेषो-व्याख्याप्रकारः।। तद्यथेत्यादिना क्षेत्रं निरूपयति-कस्मिन् क्षेत्रे सिध्यति । तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिक्षेत्रे सिक्ष्यतीति तत्र सिद्धः प्रतिष्ठितः, यथा चागमः-"इह बोंदि चहत्ताणं तत्थ गंतूण सिज्झइ" | | अप्राप्तस्थानस्तु नैव सिद्धः,कृत्यशेषत्वात् । पूर्वभावप्रज्ञापनीयस्य जन्म यस्य जन्म प्रति यत्र जातः कर्मभूमिपु पंचसु भरतेषु |पंचस्वैरवतेषु पंचसु विदेहेषु सिद्ध्यति,संहरणं प्रतिमानुषक्षेत्रे सिध्यति संहरणं द्विधा-स्वकृतं परकृतं च,तत्र स्वकृतं चारणानां ॥५२२॥ | विद्याधराणां वेच्छातो विशिष्ट स्थानाश्रयणं, परकृतं चारणविद्याधरदेवैः प्रत्यनीकतयाऽनुकम्पया वोक्षिप्यान्यत्र क्षेपणं संहरणं, तच्च | न सर्वस्यैव साधोः संहरणं समस्तीत्येतद्विवेकेन दर्शयति, तत्र प्रमत्तसंयताः संयतासंयता देशविरताः संहियंते, केचिदाहुः PIMIHDHINDHINIDHipummHgHOMMANANDHANORamriHNOHARDOI ||५२२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy