SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० १०अध्या० सिद्धगतेहेतवः | अलावुनोऽवस्थाः पूर्विका विशेष्यंते, गुणवद्भमिभागारोपितादिति बीजावस्थागुणवान् भूमिभागोऽनुपहतः क्षारमूत्रपुरीषादि| भिस्तत्रारोपितं-निरोपितं सत् काले वर्षासु जातं, ततश्चोच्छूनावस्थाद्वीजो दादंकुरः प्रवालं-किशलयं पर्ण-जठरं ततः पुष्पं ततः फलं,एषां बीजारोपणोद्भेदादंकुरप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्ततोऽविमानितः सेको | दौर्हदश्च, आदिग्रहणादस्थिभूमभस्मामुण्डनादिपरिग्रहः, एवमादिना पोषणकर्मणा परिणतं जरठीभूतं पक्कं काले परिपाकोत्तरकाले छिन्नं शुष्कमलाबु अप्सु न निमजति न जलांतः प्रविशति,सर्वेषां विशेषणानामिदं तस्व-निरुपहतं वातेनानाश्लिष्टं अशुपिरमिति, तदेव च पुनर्गुाः कृष्णमृत्तिकाया लेपैर्घनैः-निरन्तरैर्बहुमिरष्टामिदर्भवेष्टनोत्तरकालमालिप्तं, तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिना जनितमागंतुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षितलप्रतिष्टितं भवति,उत्तरकालं यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपोव्यपगतो भवति तदा तत्संगविनिर्मुक्तं दर्भादिबंधनमृत्तिकादिमोक्षणसमनंतरमेवोर्व गच्छत्यासलिलोलतलादित्येष दृष्टान्तः,सम्प्रति दान्तिकं दर्शयति-'एवमूर्ध्वगौरवे'त्यादि,संसारोदधौ भवसलिले भव औदारिकादिकायनिर्वृत्तिः भव एव सलिलं तत्र मनो भवासक्तः शरीरी अनियमेनाधस्तिर्यगूर्व च गच्छति, ततः सम्यग्दर्शनज्ञानचरणसलिलाद्रीकृतः प्रहीणाष्टविधकर्ममृत्तिकालेप ऊर्ध्वमेव गच्छत्यालोकान्तादिति । स्यादेतदि-|| | त्यादिना (२१७-१३) इदमाशंकते-ऊर्ध्व गच्छत्यालोकान्तादिति को नियमः?, स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु, गतेनिवारकस्याभावादिति । अत्रोच्यते धर्मास्तिकायाभावादिति, अस्त्येव निवारकं धर्मद्रव्यं, तद्ध्यपेक्षाकारणं, स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति, पीनस्येव वारि द्रव्यं, नत्वगच्छंतं झषं बलाद्वारि नयति, एवं गतिपरिण ॥५२॥ ॥५२०॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy