SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Domindimoi wadei । अतोऽन्येति स्वाभाविकी गतिमपहाय संगादिजनिता गतिर्भवति,संगः कर्मकृतं स्खलनं, आदिग्रहणादभिघातप्रेरणादि गृह्यते,यथा श्रीतवार्थ- सत्स्वपि विद्यमानेष्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेन जातिः पृथिव्यनलानिलव्यक्तिभेदेन भिन्ना पृथिवीत्ववायु-है सिद्धगतेहरि० त्वाग्नित्वाख्यतया नियमः क्रियते, तत्र पृथिवीत्वनियमेनाधोगतिलोष्ठः, यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः, एवं हेतवः १०अध्याद तिर्यग्गतिर्वायुःऊर्ध्वगतिर्दहनः स्वजातिनियमेनैव,एवमेषामेताःस्वाभाविक्यो गतयो यथा तथा संगविनिमुक्तस्य कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषात् ऊर्ध्वमेव सिध्यमानगतिर्भवति,संसारिणस्तु नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसंगात् कर्मजनितस्खलनाद् अधस्तिर्यगूर्व चानियमेन गतिर्भवति । किंचान्यदिति(२१६.१०) युक्त्यन्तरोपन्याससूचनं बंधच्छेदादिति बध्यते येन रज्ज्वादिनास बन्धः तस्य छेदः शस्त्रेण तोडनं,तद् व्याचष्टे-यथा रज्ज्वा गाढमापिंड्य | बद्धायाः पेडायाः रज्जुबंधच्छेदादुपरितनपुटस्य गमनमूर्ध्व दृष्टं बीजकोशबंधनच्छेदाच बंधनकोशः फलं फली वा तस्यास्तु बंधनं-गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले संपुटोद्भदः छेदः ततश्च एरंडादिफलभेदे बीजानां गतिदृष्टा तानि तृड्डीय दूरे पतंति तथा कर्मबंधः फलफटाहस्थानीयः तच्छेदात् तद्विघटनादनंतरमेवोर्ध्व सिद्ध्यमानगतिरिति। किंचान्यदिति (२१६-१७) विवक्षितार्थप्रबोधनाय हेत्वंतरमुपादत्ते, तथागतिपरिणामाचेति तथा तेन प्रकारेण सर्वकर्मविनिर्मुक्त स्यास्य गतिपरिणामो भवति विगतयोगस्यापि,चशब्दः समुच्चये,एभ्यः पूर्वोक्तहेतुभ्यः ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम ॥५१९॥ उत्पद्यते येन सिक्ष्यमानगतिभवति, भवति च गतिपरिणाम ऊर्ध्वमेव भवति, नास्तिर्यग् वा, पूर्वाभिहितहेतुनिरपेक्षः ऊर्ध्वगौरवप्र ॥५१९॥ योगपरिणामाद् विना असंगयोगं चान्तरेणेत्यत आह-गौरवपरिणामासंगयोगाभावादिति, तद्यथेत्यादिना दृष्टान्तमाह, oshimraon meinomiminadimano Hindi Jan Education international For Personal Private Us Oy
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy