________________
निक्षेपाः
श्रीतचार्थहरि०
एतद्भाष्यं नामादिजीवव्याख्यानेन भावितमेव यावत् केचिदप्याहुरित्यादि,केचित् पुनर्बुवते, 'यद् द्रव्यतो द्रव्यं भवतीति यदिति व्यणुकादि, द्रव्यत इति च तृतीयार्थे पंचम्यर्थे वा तसिः, द्रव्यैः सम्भूय यत् क्रियते,यथा बहुभिः परमाणुमिस्त्रिप्रदेशिकादिः। स्कन्धः, अथवा तस्मादेव भेदे परमाणुर्द्विप्रदेशिकादिश्च तद् द्रव्यद्रव्यं, द्रव्यतो द्रव्यस्यैव भवनादिति, एतद्विशेषे स्थापयन्नाह'तचे' त्यादि, तच्चैतद् द्रव्यं पुद्रलद्रव्यं द्रव्यमेव भवति, नान्यद् धर्मादि इत्येवं प्रत्येतव्यं, धर्मादेरन्यैः सम्भूयाकरणात् , भिद्यमानाच्चान्यवस्त्वनुत्पत्तेरिति, पुद्गलेषु चैवमुत्पादो न्याय्य इत्येतदाह-'अणव' इत्यादिना,अणवः-परमाणवः स्कन्धाश्च-द्विप्रदेशिकादयः सङ्घातभेदेभ्यः उत्पद्यन्ते, संघातात् स्कन्धाः,भेदादणवः,इत्येवं वक्ष्यामः पश्चमेऽध्याय इति ।। भावद्रव्यमभिधातुमाह'भावतो द्रव्याणी' त्यादि, अत्र भावद्रव्यमित्येकं विन्यस्य भावतो द्रव्याणीति बहुवचन निर्देशः पराभिमतं यदेकं विश्वस्य | कारणमबादिद्रव्यं, यथाहुरेके-"आप एवेदं खल्विदमग्रे आसी" दिति तद्व्यपोहेन द्रव्यबहुत्वख्यापनार्थ, कानि तानीत्याह“धर्मादीनि पंच सगुणपर्यायाणी"ति, सहवतिनो गुणाः-अनर्नवादयः क्रमवर्तिनः पर्यायाः-अगुरुलध्वादयः, तदाञ्जि, मा भृद्गुणादिभेदेन नित्यान्येवेत्याह-प्राप्तिलक्षणानी ति, तान्येवान्यानन्यांश्च धर्मान् प्रतिपद्यन्ते परिणामलक्षणानीति| यावत् .तथा च जीवो देवादिभावेन परिणमते पुद्गलाः कृष्णादित्वेन धर्मादयस्तद्गमनादिनिमित्तत्वेन, 'वक्ष्यन्त इति उपरिष्टात् ,
प्राप्तिलक्षणानीति यदुक्तं सा न स्वमनीपिकेल्याप्तागगमाह-'आगमतश्चेत्यादिना, आगमत इति तसिः सप्तम्यर्थे, चशब्दोपि| शब्दार्थे, आगमेऽपि पूर्वाख्ये कथ्यमाने 'प्राभृतज्ञ' इति व्याकरणमूलयोनिभूतशब्दप्राभृतज्ञो गुरुः, किमित्याह-'द्रव्यमिती' त्यादि, द्रव्यमित्यस्यार्थ तीर्थकृत् किमाहेति परिपृष्टो जगाद-'भव्यमाहे 'ति, एतदपि साम्प्रतं कथमवगम्यत इति चेत् ।
दि, अत्र भावत्यामवदमग्रे आसी" दिति तयः क्रमवर्तिनः पयोपान्त परिणामलक्षणानीति
॥३३॥
॥३३॥
Jan Education Internation
For Personal & Private Use Only
www.jainelibrary.org