________________
श्री तत्वार्थ
हरि०
९ अध्या०
॥५०९ ॥
Jain Education International
WHAT WHEN MADH
"000
तीर्थ - प्रवचनं प्रथमगणधरो वा तत्र किं कस्यचिदेव तीर्थकृतः तीर्थे पुलाकादयो भवन्त्युत सर्वेषां तीर्थकराणामित्याहसर्वेषामित्यादि (२१५ - ६ ) सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति, एके त्वाचार्या इत्यादि, पुलाको बकुशः प्रति| सेवनाकुशीलश्च नित्यं तीर्थ एव, शेषाः कषायकुशील निर्ग्रन्थ स्नातकास्तीर्थे भवन्ति एते कदाचिद् अतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयंते | इति, इह चादेशान्तरमाश्रित्यागममुपलभामहे - "पुलाए णं भंते! किं तित्थे होजा अतित्थे होजा ?, गोयमा! तित्थे होजा, णो अतित्थे । एवं बउसपडि सेवणाकुसीलावि, कसायकुसीले तित्थे वा होजा अतित्थे वा होजा ?, एवं नियंठसिणायगावि" ४|| लिंगं द्विविधमित्यादि (२११-९) लिंगं चिह्नं मुमुक्षोः, तच्च द्विधा द्रव्यभावभेदात् तत्र द्रव्यलिंगं रजोहरणमुखवत्रिकादि लिंग, भावलिंगं ज्ञानदर्शनचारित्राणि, भावलिंगं प्रतीत्य निसृत्य पंचापि पुलाकादयो भावलिंगे भवंति, एवं द्रव्यलिंगं प्रतीत्य भाज्याः, कदाचिद्रजोहरणादि भवति कदाचिभेति, मरुदेवीप्रभृतीनामिति ५ || लेश्याः पूर्वोक्तनिर्वचना उत्तराः पारमर्षक्रमप्रामाण्यात् पुलाकस्य तैजसीपद्मशुक्लनामानस्तिस्रो भवंति, बकुशप्रतिसेवन कुशीलयोः सर्वाः कियतः सर्वाः १, पडपीत्याह, परिहार वि शुद्धिसंयमप्राप्तस्य कषायकुशीलस्य एता एव तिस्रः, सूक्ष्मसंपरायसंयमप्राप्तस्य कपायकुशीलस्य तथा निर्ग्रन्थस्य सयोगस्नातकस्य च त्रयाणामध्येका शुक्लेव केवला, अलेशीप्रतिपन्नस्त्वयोगकेवली नियमेनालेश्य एव भवति ६ ।। उपपात इत्युपपत्तिर्जन्मान्तरप्राप्तिः सर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिरित्यर्थः सहस्रारेऽष्टादशसागरोपमस्थितिरुत्कृष्टा, तत्र पुलाकस्योत्पत्तिः - जन्म मरणोत्तरकालं, बकुशप्रतिसेवनाकुशीलयोरच्युते द्वाविंशतिसागरोपमस्थिति केषूत्पत्तिः कषायकुशीलनिर्ग्रन्थयोः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमस्थितिषूत्पत्तिः सर्वेषां पुलाकादीनां शमितकपायान्तानां प्रथमकल्पे जघन्येन, द्विप्रभृतिरा
For Personal & Private Use Only
पुलाकादिषु संयमादिविकल्पाः
॥५०९ ॥
www.jainelibrary.org