SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ निश्शेपाः |'गुणपर्यायवियुक्त इति सहवर्तिनो गुणाः-चैतन्यसुखादयः क्रमवर्तिनः पर्यायाः-तियङ्मनुष्यादयः, गुणाश्च पर्यायाश्चेति । श्रीतत्त्वार्थ- द्वन्द्वस्तैर्वियुक्तो, रहित इत्यर्थः, ननु द्रव्यगुणादेरभेदप्रतिज्ञानात् कथमेतदित्याह-'प्रज्ञास्थापितः' प्रज्ञा-घुद्धिस्तया स्थापितः, हरि० गुणादिभेदेन बुद्धथा कल्पितः इत्यर्थः, स एव विशेष्यते-'अनादी 'त्यादिना, अनादिश्चासौ पारिणामिकभावश्च तेन युक्तः, इह भाव औदयिकादिरूपोऽपि भवति तद्व्यपोहाय पारिणामिकग्रहणं, असावप्यभ्रेन्द्रधनुरादिनां सादिपारिणामिक इत्यनादिग्रहणं, एवमनादिपारिणामिकभावयुक्तो जीव उच्यते द्रव्यजीव इति, अस्य कल्पनया द्रव्यमात्रत्वादिति, तचतो निर्विषयेयं कल्पना,गुणपर्यायवियुक्तस्य तस्य वान्ध्येयादिवदसम्भवात् , भूतभाविभवत्पर्याययोग्यता चेह द्रव्यलक्षणं न समस्तीति मन्य|मान आह–'अथवा शून्योऽयं भङ्ग'इति, निर्विपय इत्यर्थः, एतदेव स्पष्टयति-'यस्ये'त्यादि, यस्येति वस्तुनः, हिशब्दो | यस्मादर्थे, अजीवस्य-चेतनारहितस्य सतो-विद्यमानस्य भव्यं-भविष्यत् जीवत्वं चेतनावचं स्याद्-भवेत् स द्रव्यजीवः | स्यात् , भाविजीवकारणतया, यद्येवमपि सति को दोष हत्याह-'अनिष्टं चैतदिति, चशब्दः एवकारार्थः, अनिष्टमेवैतत् , एवं घजीवस्य जीवभावे जीवस्याप्यजीवभाव इति सिद्धान्तविरोधः, आह-एवमपि विरोध एव, यत उक्तं-" जत्थ उ जं जाणेजा निक्खेवं निक्खिवे निरवसेसं । जत्थवि अण जाणेजा चउक्कयं निक्खिवे तत्थ ॥१॥"त्ति, चतुष्टयस्य व्यापितोक्ता सा विरुध्यते । Uन, अस्य बाहुल्य विपयत्वात् , प्रायः सर्वपदार्थेष्वन्येषु सम्भवात् , इहापि जीवपदार्थज्ञस्तत्र चानुपयुक्त इति द्रव्यजीवोपपत्तेः, ॥३१॥ तत्तथाभावेन योग्यतालक्षणं तु द्रव्यत्वमधिकृत्य भाष्यकारेणास्य प्रतिषेधः कृत इति, भावजीवमधिकृत्याह-'भावतो जीवा'|| इति, अत्रैकवचनोद्देशे बहुवचननिर्देशः एकपुरुषवादनिरासार्थः,तथा चाहुरेके-'पुरुष एवेद'मित्यादि, भावत इति च तृतीयार्थे | Din migommaas. comimemuhinICHME ॥ D DINAD Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy