SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ-| हरि० ९ अध्या० रसत्यागः विविक्तशव्यासनता marm DUEIROINS द्रव्यादिचतुष्टयापेक्षे ते, गोमहिष्यजाविकानां नवनीतं चतुर्दा, स चापि रसो वृष्य इति परिहार्यः, आदिग्रहणाद् क्षीरदधिगुडघृततैलाख्याः पंचावरुध्यते विकृतयः, तत्र क्षीरविकृतिः पंचप्रकारा गोमहिष्यजाविकोप्ट्रीणां, दधिविकृतिरपि करभीवर्जानां |चतुष्प्रकारा, गुडविकृतिरिक्षुविकारः फाणितादिः प्रसिद्धः खण्डशर्करजा, दधिविकृतिरिव घृतविकृतिरपि चतुर्विधा वा, तिलात| सीसिद्धार्थककुसुंभाख्यानि तैलानि, दधिघृताधवगाहनिष्पना अवगाह्यकविकृतिरपूयाकासाद्याऽऽदिग्रहणादागृहीतैव, एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः, एता हि वृष्यत्वाद्वाजीकरणप्रसिद्धेश्चेति न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वाद् , एवं च विकृतयोऽन्वर्थसंज्ञां लभंते, अतो मुमुक्षुणा ललनांगविलोकनवत् प्रत्याख्येयाः, इत्थं च रसपरित्यागलक्षणं विशिष्टविरसरूक्षाद्यभिग्रहिवित्यनेन विनापि विकृतिमिः शक्यं प्राणरक्षणं यतिनेति दर्शयति, विगतरसं वा स्वस्माद्रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकादि, आदिग्रहणादन्तप्रान्तपरिग्रहः । विविक्तशय्यासनतानामेति (१९९-११) शय्याग्रहणेन प्रतिश्रयत्रिकग्रहणं, आसनग्रहणेन पीठवृषिकादि, विविक्तं गर्हितजनसंपातरहितं अशुपिरादि, विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता, नामशब्दो वाक्यालंकारार्थः अभिधानवचनो वा, अस्यैव विवरणमेकान्तेऽनाबाधे इत्यादि, पर्यायकथनेन व्याख्यानं, विविक्तमेकान्तमनाबाधमसंसक्तं स्त्रीपशुपंडकविवर्जितमिति पर्यायाः, अनाबाध इति अबाधः-शरीरोपघातः स न विद्यते यत्र तदनाबाधं असंसक्त | इति सूक्ष्मस्थूलजन्तुरहिते स्त्रीपशुपंडकविवर्जित इति स्त्रियो-मानुष्यः पशवो-गोमहिष्यजाविकाद्याः पण्डकानि-नपुंसकानि, | वस्तुतश्चारित्रोपघात एषा वसतिः, तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि निरूपयति-शून्यागार इत्यादिना, शून्यागारं-शून्यगृह ॥४७५॥ ॥४७५॥ Jan Education r ational For Personel Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy