________________
श्रीतत्त्वार्थहरि०
निक्षेपाः
मिति, किमित्याह-'न्यासो भवति' विरचना कार्यत्यर्थः, किमर्थमादावित्याह-'विस्तरेणे'त्यादि, विस्तरेण-प्रपश्चेन लक्षणतो विधानतश्चाधिगमायेति, यदुक्तं प्राग् लक्षणतो विधानतश्च पुरस्ताद्विस्तरेणोपदेक्ष्याम इति, तत्र लक्षणविधानाभ्यामप्यभिधाने | | चशब्दात् स्वभेदप्रभेदैविस्तरेणाधिगमायेति, तत्राप्युपयोगो लक्षणं संसारिणो मुक्ताश्चेत्यादौ उपयोगः चतुर्भेदः संसारश्चेति नामा| दिन्यासव्याख्यावतारणेन प्रपंचाधिगमायेत्यर्थः,आदायुक्तोऽयं सर्वत्रावधारयितुं शक्यत इतिभावः। एनमेवोपन्यस्य पर्यायेण व्याचि-|
ख्यासुराह-'न्यास' इत्यादि,न्यासः कः ?, उच्यते-निक्षेप इत्यर्थः,एतन्नामादि यथा लक्ष्येऽवतरति तथाऽभिधातुमाह-'तयथे'|त्युदाहरणोपन्यासार्थः,नामजीव इत्यादि, नाम्नैव जीवः नामजीवः,जीवशब्द इत्यर्थः,एवं स्थापना जीवाकारा प्रतिकृतिः, एवं द्रव्यं | | तद्गुणवियुक्तः,एवं भावस्तद्गुण इति, एवं चत्वार्यपि तचं सर्वेभ्योऽर्थानर्थसिद्धेरिति,यद्वा एकमिन्नेव शरीरिणि चतुष्टयं,तत्र यो जीव | इतिशब्दः प्रवर्त्तते स नामजीवः,य आकारः करायवयवसन्निवेशः स स्थापनाजीवः,विवक्षया ज्ञानादिगुणवियुक्तत्वं द्रव्यजीवो,ज्ञानादिगुणपरिणतिभाक्तवं तु भावजीव इति । सम्प्रति नामादीनां जीवविशेपणतयोपात्तानां स्वार्थ लक्ष्ये दर्शयति-'नामे'त्यादिना,नामेति | किमुक्तं भवति ?-संज्ञा नाम करणमित्यनर्थान्तरमेतत् ,अनेन शब्देनेदं वस्त्वभिधीयत इतियावत् ,एतदेवाह-'चेतनावत' इत्यादिना, चेतना-ज्ञानं सा यस्यास्ति तच्चेतनावत् ,तद्विपरीतमचेतनं, द्रव्यस्येति (तस्य) प्रदर्शनमिदं,गुणक्रिययोरपि नामादिचतुष्टयप्रवृत्तेः, द्रव्यव्यतिरेकेण वा गुणकियाऽभावात् प्राधान्यख्यापनपरं,अतस्तस्य द्रव्यस्प चिन्ता न क्रियते,व्यवहारार्थ संज्ञा-सङ्केतः क्रियते, कीगित्यत आह-'जीव'इति,इतिना स्वरूप जीवशब्दः स्थाप्यते, जीव इत्ययं ध्वनिः तच्चेद्वाच्योऽर्थो नामतया नियुज्यते स नामजीव | इति,स इत्यनेन तत्र चेतनावत्यचेतने वा यदृच्छया यो जीवशब्दो नियुक्तस्तं व्यपदिशति स शब्दो नामजीव इत्युच्यते,न तद्वस्तूपाधिक
॥२९॥
॥२९॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org