SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीतच्यार्थहरि० सप्ततची देवं,किंत्विह मोक्षमार्गे शिष्यस्य प्रवृत्तिः प्रक्रान्ता,न तु सङ्ग्रहाभिधानं, तद् यदेवमाख्यायते आश्रवो बन्धश्चेतद्वयमपि मुख्यं तत्त्वं |संसारकारणं, संवरनिर्जरे च मोक्षस्य, तदाऽसौ संसारकारणत्यागेनेतरत्र प्रवर्तते, नान्यथेत्यतः चतुष्टयोपन्यासः, मुख्यसाध्य| ख्यापनार्थ च मोक्षस्येति, न चैवमिह पुण्यपापाभिधाने किंचित् प्रयोजनमिति, एतेन जीवादिक्रमाभिधानप्रयोजनमुक्तं वेदित| व्यमिति, जीवादीनां लक्षणादेरभिधानावसर इत्याह-'ताल्लक्षणत' इत्यादि, तान्-जीवाजीवादीन् लक्षणतः-स्वचिह्वेन विधा| नतो-भेदेन चशब्दाद् भेदप्रभेदपरिग्रहः, पुरस्ताद्-उपरिष्टात् विस्तरेण-प्रपंचेन उपदेक्ष्यामः-सामीप्येन कथयिष्यामः, 'उपयोगो | लक्षणं' (२-८)स द्विविधोऽटचतुर्भेदः (२-९) तथा संसारिणो मुक्ताश्च (२--१०) समनस्कामनस्काः (२-११) संसारिणस्वसस्था| वरा (२-१२) इत्यादिना ग्रन्थेन ।। एते च जीवादयः नामादिभेदैरनुयोगद्वारैः तथा प्रत्यक्षपरोक्षाभ्यां प्रमाणाभ्यां नैगमादिभिश्च | वस्त्वंशपरिच्छेदिभिर्नयः तथा निर्देशस्वामित्वादिभिःसत्संख्याक्षेत्रादिभिश्च प्रकारैरधिगन्तव्याः, तत्र व्यापकत्वान्नामादीनामादा| वेभिर्निरूपयमाह नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ सूत्रं ॥ नामस्थापनाद्रव्यभावत इति तृतीयार्थे तसिः, नामादिभिर्जीवादीनां निक्षपः कार्य इति सूत्रपिण्डार्थः । एनमेव प्रकटयनाह भाष्यकारः- 'एभिरित्यादि (पृ.९-१६) एभिरिति सूत्रोक्तः नामादिभिः-नामस्थापनाद्रव्यभावश्चतुर्भिरिति नामादीनामुपलक्षणव्यवच्छेदार्थ संख्या, इहाधिकारे एभिरेवेत्यर्थः, अनुयोगद्वार रिति अनुयोगः-सकलगणिपिटकव्याख्या तस्य द्वाराणिअधिगमोपायास्तैः, किमित्याह-'तेषा 'मित्यादि, तेषामित्यनन्तरोक्तसूत्रोक्तानां, तानेव स्पष्टयति-जीवादीनां तत्त्वाना ॥२८॥ ॥२८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy