SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थहरि० तचोद्देशः जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्. ॥४॥ सूत्रम् ।। जीवादयस्तत्त्वमिति, एकवचननिर्देशः अमीषामेव निरुपचरितसामान्यविशेषतच्चरव्यापनाय सामान्यप्रधानः, इति सूत्र- समुदायार्थः, अवयवार्थ तु विग्रहपुरस्सरमाह भाष्यकारः-'जीवा' इत्यादि, (पृ. ७-१२ ) तत्र सुखदुःखज्ञानोपयोगलक्षणा | जीवाः, तद्विपरीतास्त्वजीवाः, आश्रूयते-गृह्यते कर्म अनेनेत्याश्रवः, शुभाशुभकर्मादानहेतुरिति भावः, आश्रवरात्तस्य कर्मण आत्मना संयोगो बन्धः, आश्रवस्य निरोधो गुत्यादिमिः संवरः, कर्मणां विपाकतस्तपसा वा शाटो निर्जरा, कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं मोक्षः, 'इत्येष सप्तविधोऽर्थस्तत्त्वमिति' इतिशब्दः इयत्तायाम् , एतावानेव, एप इति चोदकस्य प्रत्यक्षीकृतो वचनेन, सप्तविधः इति सप्तप्रकारः, अर्थ इत्यर्यमाणत्वात् , तचमित्यस्य पदस्य एष सप्तविधोऽर्थ इति पदवयं | व्याख्यानं, तवमिति वा व्युत्पत्तौ कथ्य, सद्भूतं परमार्थ इति व्युत्पत्तौ तु जीवादीनां पदार्थानां स्वभावः-स्वसत्ता, इयं यदा | प्राधान्येन विवक्ष्यते तदैकवचननिर्देशः तत्वमिति, यदा तु विशेषधर्मानुविद्धत्वादुपसर्जनत्वेन तदा बहुवचननिर्देश एवेत्याह'एते वा सप्तास्तित्त्वानीति' एते प्राक् प्रत्यक्षीकृताः, वाशब्दो विशेषप्राधान्यापेक्षया विकल्पार्थः,सप्ता-जीवादयस्तत्वानि दृश्यानि,पुण्यपापयोश्च बन्धेऽन्तर्भावान्न भेदेनाभिधानं,यद्येवमाश्रवादयोऽपि पञ्चच न जीवाजीवाभ्यां मिद्यन्ते ततस्तेऽपि न वाच्याः, | तथाहि-आश्रयो मिथ्यादर्शनादिरूपः परिणामो जीवस्य,स च क आत्मानं पुद्गलांश्च विरहय्य,बन्धस्तु कर्म पुद्गलात्मकं आत्मप्रदेशसंश्लिष्टं, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेदः आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटात् जीवकर्मणां पार्थक्यमापादयति स्वशक्त्या,मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माजीवाजीवौ तच्चमित्येतावद्वक्तव्यम् , उच्यते, सत्यमेत ॥ २७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy