________________
चारित्राणि
श्रीतच्चार्थ
हरि० ९अध्या०
। सावादिश्चैकादि, एक आदिर्येषां ते एकादयः, एकादिश्च एकादयश्च एकादयः तदेते द्वाविंशतिपरीपहाः भाज्या-विकल्प्याः युगप
देकस्मिन् जंती, कस्यचिदेकः कस्यचिद्वौ कस्यचित्रयस्तावद्यावदेकोन्नविंशतिरविरोधाद् युगपदेकत्रोदयंते, विरोधात्तु न द्वाविंशतिरप्येकस्मिन् युगपदिति । कथं पुनरेकोनविंशतिर्युगपत् न पुनाविंशतिरपीत्याह-अत्यन्तविरोधित्वादिति, शीतोष्णलक्षणयो| रसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः, अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थ, शीतोष्णपर्यायावत्यन्तभिन्नौ विरुद्धौ, तयोश्चैकस्मिन् काले नैकत्वेनावस्थानं, द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपर्यायं शीतमुष्णं चेत्यवस्थितशीतपुरुपबदुष्णीभूतसर्पवद्वा नास्ति कश्चिद्विरोधः, तथा चर्याशय्यानिषद्यानामेकस्य संभवे द्वयोरभावः चर्यायां सत्यां निपद्याचर्ययोरभावः निषद्यायां तु शय्याचर्ययोरभावः शय्यायां पुनः निषद्याचर्ये न भवत इति तयोर्वर्जन ॥ इत्युक्तः परीपहजयः, सम्प्रतिः प्रस्तावप्राप्तं चारित्रमुच्यते
सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम् ।। ९-१८ ॥ सूत्रम् ॥ ___ सामायिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, एकमेव चारित्रं संयमभेदं मन्यमानो भाष्यकृदाह-सामायिक|संयम (१९८-८) इत्यादि, सर्वसावद्ययोगविरतिलक्षणं सामायिक, तद्विशेषा एव च च्छेदोपस्थाप्यादयो विशुद्धतराध्यवसायविशेषाः,सावद्ययोगविरतिरूपं सामायिकं द्विप्रकार-इत्वरकालं यावजीविकं च,तत्राचं प्रथमान्त्यतीर्थकरतीर्थयोः प्रव्रज्याप्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः छेदोपस्थाप्यसंयमारोपणं विशिष्टतरत्वाद्वितरतः सामायिकव्यपदेशं जहातीत्यत इत्व-| रकालं, मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावजीविकं प्रव्रज्याप्रतिपत्तिकालादारभ्य प्राणप्रयाणकालादवतिष्ठते, प्रथमान्त
॥४६८॥
॥४६८॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org