SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० ९ अध्या० ॥४६५॥ Jain Education International | सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसंगश्चाहं तथापि धम्मधिम्र्म्यात्मदेवनारकादिभावाभेक्षे अतो मृषा समस्तमेतदिति | अदर्शनपरी पहः, तत्रैवमालोचयेद् धर्म्माधर्मौ पुण्यपापफललक्षणौ यदि कर्म्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमान| समाधिगम्यत्वं, अथ क्षमाक्रोधादी धर्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, विज्ञानात्मकत्वादात्मनः न प्रलंभो विद्यत एव देवास्त्वन्त्यन्ततरतम (विषय) सुखासक्तत्वान्मनुष्यलोके च कार्याभावाद् दुष्षमानुभावाच्च न दर्शनगोचरं प्रयांति, नारकास्तु तीव्रवेदनार्त्ताः पूर्वकृत कम्र्मोदयनिगडबन्धनवशीकृतत्वाद स्वतंत्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवति २२ । इतिशब्द इयत्ताप्रदर्शनार्थः, एत इति (१९२-७) क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृताः द्वाविंशतिरिति, न न्यूनाः, नाधिकाः, क्षमादिदशलक्षणस्य धर्मस्य विघ्नहेतवः अंतरायकारणभूताः । यथोक्तं संवराख्यं प्रयोजनमभिसमी| क्ष्याभिसंधाय संवरफलं चाभिसंधाय मोक्षं रागद्वेषौ निहत्येति, केचिद्रागादुदयमासादयंति केचिद्वेषादित्यतः सर्व एवैते दुष्यंति, समापतिताः समन्तात् परीषोढव्या भवतीति । 'पंचानामेव चे' त्यादिना सूत्रं, पंचानामेव, न चतसृणां कर्म्मप्रकृतीनां उदयाद्विपा| काद्वा द्वाविंशतिः परीषहाः समुपजायंते, काः पुनस्ताः पंच कर्म्मप्रकृतय इति नामग्राहमाचष्टे - ज्ञानावरणस्य वेद्यस्य मोहनीयस्य तथा मोहनीयं द्विप्रकारं - दर्शनमोहनीयं चारित्र मोहनीयं च, तथाऽन्तरायस्येत्येवमेतासु पंचसु प्रकृतिषु । गुणस्थानेषु के क्वेत्याहसूक्ष्म सम्परायच्छद्मस्थवीतरागयोश्चतुर्दशेति ॥ ९-१० ।। सूत्रम् ॥ स्वामिविशेषावधारणं चतुर्दशानां परीपहाणां, सम्परायः - कषायो लोभाख्यस्तस्य बादराणि खण्डानि परिशादितानि नवमे गुणस्थाने, दशमे सूक्ष्मलोभपरमाणवो विद्यतेऽतः सूक्ष्मः सम्परायो यस्यासौ सूक्ष्म संपरायः शमकः क्षपको वा संयतो मूलोत्तरगुण For Personal & Private Use Only DOCJO-DOG-0 परीषाणां गुणस्थानावतारः ॥४६५॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy