SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ अरत्यादि श्रीतचार्थ हरि० ९ अध्या० परीषहजयः | विद्यमानमविद्यमानं वा न ददाति यस्य स्वं तत् ,कदाचिद्वादत्ते,अल्पं वा कदाचित् परः, तत्रापरितोषो नायच्छति सति,यथोक्तं-"बहुं परघरे अत्थी'त्यादि, अलाभे च प्रसन्नात्मनैव भवितव्यं अलाभपरीषहजयः१५, रोगो-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे | सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्त्तन्ते,गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक् सहते, प्रवचनोक्तेन वा विधिना प्रतिकारमा चरंतीति रोगपरीषहजयः१६,अशुषिरतणस्य दर्भादेः परिभोमोऽनुज्ञातो गच्छनिर्गतानां,गच्छवासिनां च तेषां शयनमनुज्ञातं नि| शय्यन्ते, तान् दर्भान् भूमावास्तीर्य संस्तारकौ च दर्भाणामुपरि विधाय शेरते, चौरैरुपकरणापहृतौ वा प्रतनुकसंस्तारकादिपट्टको वा अत्यन्तजीर्णत्वात्तृणाद्यपि तत् परुपकुशदर्मादितृणसंस्पर्श सम्यगधिसहते यस्तस्य तृणपरीषहजयः१७, रजः-परागमात्र मलस्तु स्वेदवारिसम्पर्कात् कठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मसंपातजनितधर्मजलादातांगतो दुर्गधिर्महान्तमुद्वेगमापादयति,तदपनय| नाय कदाचिदभिषेकाचभिलाषं न करोतीति मलपरीषहजयः१८,सत्कारो-भक्तपानवस्त्रपात्रादिना परतो योगः पुरस्कारः-सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कारितो वा न द्वेषं यायात् न द्वेषयेच मनोविकारेणात्मानमिति सत्कारपुरस्कारपरीषहजयः १९, प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः तस्मात्तत्प्राप्तौ न गर्वमुद्रहत इति प्रज्ञापरीषहजयः २०, प्रज्ञाप्रतिपक्षेणाप्यबुद्धिकत्वेन परिषहो भवति, नाहं किंचिजाने मूर्योऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषहस्तदकरणात् कर्मविपाकोऽयमिति परीषहजयः, ज्ञानं तु श्रुताख्यं चतुर्दश पूर्वाण्येकादशांगानि समस्तश्रुतधरोऽहमिति गर्वमुबहते, तत्रागर्वकरणात् ज्ञानपरीषहजयः, ज्ञानप्रतिपक्षेणाप्यज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणोदयात् क्षयोपशमोदयविज्जूंमितमेतदिति, स्वकृतकर्मफलपरिभोगादपैति तपोऽनुष्ठानेन वेत्येषमालोचयतो ज्ञानपरीषहजयो भवति २१॥ अदर्शनपरीषहस्तु ॥४६४॥ ॥४६४॥ Jan Education r ational For Personal Use Oy
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy