________________
श्रीतस्वार्थहरि०
९ अध्या०
॥४६३॥
Jain Education International
स्थितास्थित कल्पयोः शुद्धयोरपि ते भवंति एवमेते जिनकल्पिकादयो गच्छनिर्गताः, तत्र यद्येवंविधं नाग्यमिष्यते ततो नागमो| परोधः, अथ परिधानकपरित्यागमात्रं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति, स्थविरकल्पिकास्तु | चतुर्दशविधोपधय उत्सर्गापवादव्यवहारिणः औपग्राहिकोपधिधारणादीनां गच्छ्वासिनां च पारमार्षप्रवचनानुसारिणां नाश्यपरी| पहजयः संभवतीति नान्येषां ६ |
अरतिरुत्पद्यते कदाचिद्विहरतस्तिष्ठतो वा सूत्रोपदेशात्, तत्रोत्पन्नारतिनापि सम्यग्धर्मारामरतिनैव भवितव्यं, एवमरतिपरी पहजयः ७ स्यादिति, न स्त्रीणामंगप्रत्यंगसंस्थानहसितललितविभ्रमादिचेष्टाः चिंतयेत् न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षार्गार्ग लासु | कामबुद्ध्या, एवं स्त्रीपरीषहजयः८ कृतो भवति, वर्जिताऽलस्यः ग्रामनयन (गर) व सतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः ९, निषीदंत्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिता तत्रानुद्विगेन निषद्यापरीषह जयः कार्यः १०, शय्या संस्तारकश्चम्पकादिपट्टो वा मृदुकठिनादिभेदेन वोच्चावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्म्मको वा तत्र नोद्विजेत कदाचनेति शय्या परीष हजयः ११, आक्रोशः अनिष्टवचनं तद् यदि सत्यं कः कोपः १ शिक्षयति हि मामयमुपकारी न पुनरेवं करिष्यामीत्यत्र त्वया सुतरां कोपो न कर्त्तव्य इत्याक्रोशपरीषहजयः १२, वधः- ताडनं पाणिपाणिलताकशादिभिस्तदपि | शरीरकमवश्यंत या विध्वंसत एवेति मत्वा सम्यक् सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलमंहतिरूपं, आत्मा पुनर्न शक्यत एव ध्वंसयितु| मतः स्वकृतकर्म्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः १३, याचनं मार्गणं भिक्षोर्वस्त्र पात्रान्नपानप्रतिश्रयादेः | परतो लब्धव्यं सर्वमेव साधुना अतो याचनमवश्यमेव कार्यमित्येवं याच्यापरीषहजयः १४, अलाभस्तु याचिते सति प्रत्याख्यानं
For Personal & Private Use Only
अरत्यादिपरीषहजयः
॥४६३॥
www.jainelibrary.org