________________
श्रीतवार्थ
हरि० ९अध्या
अचेलकपरीपहजयः
क्रमणविधानं चानवस्थिताः कल्पाः॥१॥" आद्यचरमतीर्थकरतीर्थवर्तिनां तु दशविधोऽप्यवस्थितः कल्पः । “अस्य तु पुनर्भगवतस्तीर्थकरवर्द्धमानचन्द्रस्य । स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ।।१।।" किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनं', "आर्जवजडा अनार्जवजडा[श्चेति] वृषभवीरतीर्थकालभवाः । मनुजा यस्मात्तस्मात् कल्पः स्थित एव स प्रोक्तः ॥१॥" | सत्यमुक्तं, आचेलक्यमुक्तं तत्तु यथोक्तं तथा कर्त्तव्यं, तीर्थकृतकल्पस्तावदन्य एव, मतिश्रुतावधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतु
ओनिन इति युक्तमेव तेषां पाणिपात्रभोजित्वम् , एकदेवध्यपरिग्रहाच, साधवस्तु तदुपदिष्टा बारानुष्ठायिनो जीर्णखंडितासर्वत|नुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽपि अचेलका एव, यथा आपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते | सवस्त्रकोऽपि तथाऽत्र गुह्यप्रदेशस्थगनाय गृहीतचोलपट्टकोऽपि नग्न एवेति, योषित् काचित् परिजीर्णशाटिकापरिधाना तंतुवा| यमाह-'नग्नाऽहं देहि मे शाटिका' इति, एवं साधवोऽप्यमहाधनमूल्यानि खंडितानि जीर्णानि च बिभ्रतः श्रुतोपदेशाद्धर्मबुद्ध्या | नाग्न्यभाज एवेति, चारित्रसूत्रे शुद्धपरिहारिकान् वक्ष्यामः, अथालंदिकास्तु भण्यन्ते, लन्दमिति कालस्याख्या, तच्च पंचरात्रं, |तेपां हि पंचको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु
गच्छप्रतिबद्धाः, तत्र केचिजिनकल्पिकाः यथालंदिनः, तत्र जिनकल्पिका निष्प्रतिकर्मशरीराः समुत्पन्नरोगाश्चिकित्सायां न प्रवर्त्तते, | नेत्रमल्याधपि नापनयंति, स्थविरकल्पास्तूत्पनरोगं गच्छे प्रक्षिपति, गच्छोऽपि प्रासुकैषणीयेन कर्म करोति भेषजादिना, स्थवि| रकल्पिकाश्चैकैकप्रतिग्रहधारिणः सप्रावरणाः, जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि, एकत्र पंचरात्रचारिण एते, गणप्रमाणं जघन्यतस्त्रयो गणाः शतश उत्कृष्टः, मिक्षाचर्या तु तेषां पंच पंचैव, एकवीथौ चरन्तः पंचभिः षट्कर्मासकल्पं प्रतिसमापयंति,
॥४६२२॥
|॥४६२॥
For Personal Present
Join Education international
www.jainelibrary.org