________________
श्रीतत्त्वार्थ
हरि० ९ अध्या०
अचेलकपरीषहजयः
ऽभ्युद्यतविहारं, स च त्रिविधो-जिनकल्पः शुद्धिपरिहारः यथालब्दश्व, तत्र जिनकल्पप्रतिपत्तियोग्य एवं जिनकल्पं प्रतिपत्तुकामः प्रथममेव तपःसत्त्वादिभावनामिरात्मानं भावयति, भावितात्मा च द्विविधे एव परिकर्मणि प्रवर्तते, यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते,अथ पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहधारित्वपरिकर्मणि प्रवर्तते, तत्र यः पाणिपात्रलब्धिसम्पनस्तस्योपधिरवश्यतया रजोहरणं मुखवत्रिका च, कल्पग्रहणविधिश्चतुर्विधः पंचविधो वा, प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यतया, कल्पग्रहणाद् दशविध एकादशविधो द्वादशविधो वा उपधिरागमेऽभिहितः, एवंविधं नाम्यमिष्टं, दशविधसमाचार्या चेमाः पंच तेषां | सामाचार्यः-आपृच्छना मिथ्यादुष्कृतमावश्यकी निषीधिकी गृहस्थोपसंपच्च, उपरितनी वा त्रिप्रकारा सामाचारी, आवश्यक्यादिका, श्रुतसंपदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः, तत्र हि कालः परिज्ञेयो (गुणनादिना), उत्कृष्टेन दश पूर्वाणि मिनानि, न सम्पूर्णानि, वचर्षभनाराचसंहननाश्च ते वज्रकुड्यकल्पधृतयः,स्थितिरपि तेषां क्षेत्रादिकाऽनेकभेदा, क्षेत्रतस्तावत् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूमौ वा, अवसर्पिण्यां कालतः तृतीयचतुर्योः समयोः जन्म, त्रिचतुर्थपंचमीपु सद्भावः, चतुां लब्धजन्मा पंचम्यां प्रत्रजति, उत्सपिण्या दुष्षमाद्यासु त्रिपु कालविभागेषु जन्म, द्वयोस्तु सद्भावः, सामायिकच्छेदोपस्थाप्ययोर्जिनकल्पप्रतिपत्तिः चरणयोः, एवं तीर्थपर्यायागमवेदादिकाऽपि स्थितिरुपयुज्यागमानुसारेण वाच्या,ननु च अचेलकादिर्दशविधः कल्पस्तत्राचेलक्यं स्फुटमेवोक्तं, तत्र मध्यमतीर्थकरतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यंतया करणीयः, यथाह-"शय्यातरपिंडत्यागः कृतिकर्म च तथा व्रतादेशः । पुरुषज्येष्ठत्वं च हि चत्वा रोऽवस्थिताः कल्पाः ॥ १॥" पड्डिधश्चानवस्थितकल्पः, यथोक्तं-"आचेलक्यौदेशिकनृपपिंडत्यागमासकल्पाच । वर्षाविधिः प्रति
॥४६१॥
॥४६॥
For Personal Private Use Only
Jon Education roernational
www.jainelibrary.org