SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० / ९अध्या० भावना सर्व चैतत् कफादि शुक्रान्तमशुच्येव, तसादाधुत्तरकारणाशुचित्वादशुचिरेव, किंचान्यदित्यनेन अशुचित्वे हेत्वन्तरमाह / अशुचिभाजनत्वादिति (192-6) अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् , अवस्करो-वर्चस्वानं पादपायुक्षालनकं तदिव यत् अशुचि| तदवस्करभूतं यस्मादशुचीति, किंचान्यद् अशुच्युद्भवत्वादिति हेत्वन्तरं (192-9) एषामेव कर्णमलादीनामशुचीनामुद्भवः |-आकरः शरीरं यस्मात्तत उत्पद्यते एते कर्णमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितं, अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्ते इति प्रतिपाद्यते, अथवा अयं विशेषः-अशुचौ च गर्भे संभवतीत्यशुचि शरीरं, || गर्भ-उदरमध्यं, चशब्दो वाशब्दार्थः अशुचौ वा गर्ने पुरीषादिप्राये संभवति-उत्पद्यते यस्माच्छरीरं तस्मादशुचीति, किंचान्यदित्ययमपरो हेतुरशुचित्वे अशुभपरिणामिपाकानुबंधादिति (१९२-११)अशुचिः परिणामो यस्य पाकस्य तेनानुबंधत्वाद्-अनुगतत्वात् , तमेवाशुभपरिणाम पाकं प्रकाशयति आर्तव इत्यादिना, आर्तवम्-ऋतौ शोणितं तस्मिन् आर्त्तवे सति, बिंदोराधानात् प्रभृतीति, बिन्दुः-शुक्रावयवः तदाधानात्-तत्प्रक्षेपात् प्रभृत्यौदारिकं कललादिभावेन परिणमते, अर्बुद-घनव्यूहोऽवय| पविभागः,सर्वश्चायमशुभपरिणामः पाकः कललाधवयवरूपस्तेनानुबद्धं दुर्गधम्-अशुभगंधं अत एव पूतिस्वभाव, दुरंतमिति पर्यव सानेऽपि कम्यादिपुंजो वा गृध्रसारमेयवायसादिभक्तं वा भस्मान्तमस्थिशकलानि वा, एवमिदं दुष्टान्तं शरीरं यतस्तस्मादशुचीति, |किंचान्यदिति प्रकारान्तरेणैवाशुचित्वप्रतिपादनं, अशक्यप्रतीकारत्वादिति (192-14) अशक्यः प्रतीकारो यस्याशुचित्वस्य, अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः, उद्वर्तनं प्रतीतं, रूक्षणं रोधकपायादिमिः स्नानं जलेन अनुलेपनं // 453 // चन्दनादिकं धूपो विशिष्टगंधद्रव्यसमवायी प्रक(घ)ो-गंधापणिकं वासयुक्तिः पटवासादिका माल्यं मालाई पुष्पं, आदिग्रहणात् | // 453 // For Personal Private Use Only Jon Education international www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy