________________
श्री तत्वार्थहरि०
९ अध्या०
॥४५७॥
Jain Education International
HIMSAMADHAN AIM
| चिंतयन् कर्मनिर्जरणायैव घटते, निर्जरानुप्रेक्षा ९॥
पंचास्तिकायात्मकमित्यादिना (१९४-१६) लोकानुप्रेक्षास्वरूपं निरूपयति, पंचास्तिकाया धर्माधर्म्माकाशपुद्गलजीवाख्यास्ते आत्मानः- स्वरूपमस्येति, लोकमित्युपरिष्टाद्वक्ष्यति, विविधो नानाप्रकारः परिणामो यस्येति, तमेव विविधपरिणामं दर्शयति उत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं उत्पत्तिर्द्विविधा प्रतिक्षणवर्तिनी कालान्तरवर्तिनी च, प्रतिक्षणवर्त्तिनी अविभाव्या|न्त्यप्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिमाणभावाः अस्तिकायाः, कालान्तरवर्तिनी मृद्रव्यं पिंडाद्याकारेण मृद्भावं प्रकीर्णमपहाय पिंडादिरूपेण परिणमते, स्थितिरवस्थानं अस्तिकायरूपेण सर्वदा व्यवस्थानात्, धर्मास्तिकायादिव्यपदेशं न जहते, ते सर्वदा व्यवतिष्ठत्येव वचनार्थपर्यायैः, अन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं विनाशः, सोऽपि द्विविधः - क्षणिकः कालान्तरवर्ती च, विवक्षितक्षणाद्वितीयक्षणादन्यत्वमवश्यं भावीत्यवस्थान्तरापत्तिरेव विनाशो, न निरन्वयः क्वचिदस्ति प्रलयः, स्थित्युत्पत्ती अनुग्रहकारिण्यौ सच्चानां घटो हि समुत्पन्नस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति, प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः, कुण्डलार्थिनः कटकविनाशवत्, अत एव एमिरुत्पभ्यादिमिर्युक्तमुत्पन्यादिपरिणतिस्वभावमिति, विनाशो नानाप्रकारः स्वभावः स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षस्वरूपत्वात् वैचित्र्याच्च कर्म्मपरिणतेः, एवं ह्यस्य चिन्तयतस्तस्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा, एवम् उक्तेन प्रकारेण लोकस्वरूपमभिधाय ततस्तेषु जीवादिपदार्थेषु विशुद्धं निर्मलं शंकादिदोषरहितं ज्ञानं भवतीति, यथा भगवद्भिरुक्तं “सङ्घाई ठाणाई असासयाई" न कदाचिदस्मिन् व्यावर्णितलक्षणे लोके किंचित् स्थानमस्ति शाश्वतं यत्रात्यंतिकी निवृत्तिरात्मनो भवतीत्याह- परलोक निरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा १० ॥
For Personal & Private Use Only
लोकानु
प्रेक्षा
॥४५७॥
www.jainelibrary.org