SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० ९ अध्या० तत्रोपकरणं बाह्यं रजोहरणपात्रादि स्थविरजिनकल्पयोग्योपधिः दुष्टवाङ्मनसोऽभ्यन्तरं क्रोधादिश्चातिदुस्त्यज उपधिः, शरीरं वाऽभ्यन्तरोपधिरमपानं च बाह्यमादिग्रहणादौपग्रहिकं च बहिर्निषद्यादण्डकादिः आश्रयभृतं भावदोषस्य भवति,भावदोषो मूर्छा स्नेहः आकिंचन्यगाादि, संयमसाधनं रजोहरणादीत्येवं धारयति, न पुनः रागादियुक्तः शोभाद्यर्थ, एवंविधस्य भावदोषस्य परित्यागः सर्वप्रकार: अमचर्ये | त्याग उच्यते । सम्प्रत्याकिंचन्यस्वरूपनिरूपणायाह-शरीरधर्मोपकरणादिषु निर्ममत्वमाकिंचन्यम् (१८८-९) उक्तेन न्यायेन भावदोषत्यागं कृत्वा बाह्योपकरणं रजोहरणपात्राद्युप जानोऽपि अकिंचन एव भवति, शरीरमाश्रयमात्रमात्मनो यदा च तत् त्यागा-10 | हमशुचि त्वग्मांसास्थिपंजरं केवलं धर्मसाधनचेष्टायाः संयमभरक्षमायाः सहायके वर्तते तदिदं शकटादावलोपांजनवदाहारादिनो| पग्राह्यं, नत्ववयवसन्निवेशशोभार्थमिति, निर्ममत्वमाकिंचन्यं, धर्मोपकरणं रजोहृत्यादि प्रमार्जनादिकार्यप्रसाधनाय व्याप्रियत इति | संयमोपकरणमत्रापि निर्ममत्वमाकिंचन्यमिति । ब्रह्मचर्यस्वरूपनिर्दिधारषया प्राह-व्रतपरिपालनायेत्यादि (१८८-१०) आकिचन्यव्यवस्थितो ब्रह्मचर्य परिपालयेत् , तच्च ब्रह्मचर्य गुरुकुलवासलक्षणं, गुरुकुलवासो ब्रह्मचर्यमिति,बृहत्वादात्मा ब्रह्म ब्रह्मणि चरणमात्मारामत्वमरक्तद्विष्टात्मनि व्यवस्थान अब्रह्मणश्च विनिवृत्तिव्रतं, मैथुनवर्जनं प्राधान्येन,तत्परिपालनाय गुरुकुले वसितव्यं,यद्यपि मनोज्ञामनोज्ञविषयरागविरागविमुक्तिब्रह्मचर्य तथापि प्रधानत्वेन विवक्षा मैथुननिवृत्तेरेव, तत्परिपालनार्थं च भगवद्भिर्नव गुप्तय उपदिष्टाः, वसतिकथानिषद्यन्द्रियकुड्यान्तरपूर्वक्रीडितप्रणीताहारातिमात्रभोजनविभूषणाख्याः, ज्ञानसंवर्द्धनाथं च गुरुकुलवासो, | यथोक्तमा-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ। धण्णा आवकहाए गुरुकुलवासं न मुंचंति ।।१।।" कपायाः को-| ॥४४५॥ धादयः तेषां परिपाकः परिणतिरुपशमः क्षयो वा तदर्थ च गुरुकुलवासोऽभ्युपेयः, गुरुरहितस्य हि परिणामवैचित्र्याद्विकथादिदोषा ॥४४५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy