________________
श्रीतच्चार्थ
हरि० ९ अध्या०
||४४४ ॥
Jain Education International
DOCDIC
सप्त दत्तयः, शेषं प्रथमप्रतिमावद्विधानं, प्रथम सप्तरात्रिकीं प्रतिमामारूढस्य चतुर्थभक्तमपानकं ग्रामादेर्बहिरुत्तान पार्श्वशायिनो | निषण्णस्य वा कल्पते स्थातुं दिव्यमानुषतैर्यग्योनानुपसर्गान् सहमानस्येति, अन्यत् पूर्ववत्, द्वितीयां सप्तरात्रिकी प्रतिमामारूढस्य तदेव चतुर्थभक्तमपानकं च, स्थानं तस्य दंडायतं [मीत्या]लगंडशायिता उत्कुटकासनं वा, तृतीयामपि सप्तरात्रिकीं प्रतिज्ञामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुब्जता चेति, अहोरात्रिकीं प्रतिपन्नस्य प्रतिमां षष्ठभ क्तमपानकं च, बहिर्ग्रामादेश्वतुरांगुलांतरौ चरणौ विधाय लंबितबाहोः कायोत्सर्गः स्थानमेकं शेषं पूर्ववत्, एकरात्रिकी प्रतिमां कुर्वतोऽष्टमभक्तमपानकं, ग्रामादेर्बहिरीषत्प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रियग्रामः कायोत्सर्गावस्थायी दिव्यमानुषतैरश्वानुपसर्गान् सम्यक्तितिक्षते यस्तस्य भवतीति । सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति, नेदं पारमर्षप्रवचनानुसारि भाष्यं, किं तर्हि १, गीतप्रमत्तमेतत्, वाचको हि पूर्ववित् कथमेवंविधमार्षविसंवादि निबभीयात्, सूत्रानवबोधादुपजातभ्रान्तिना केनापि रचितमेतद्वचनकं 'दोचा सत्तराइंदिया तझ्या सत्तरादिया' इति द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः, द्वे सप्तरात्रे त्रीणि सप्तरात्राणीति सूत्रनिर्भेदं कृत्वा पठितमज्ञेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति ॥
एवं तपः प्रकीर्णकमभिधाय त्यागाभिधित्सया आह-बाह्याभ्यन्तरोपधिशरीरान्नपानाद्याश्रयो भावदोषपरित्यागत्यागः (१८८-७) बाह्याभ्यन्तरोपधिशरीरान्नपानादिराश्रयो यस्य तस्यैवंविधस्य भावदोषस्य परित्यागस्त्यागोऽभिधीयते, न हि निरालम्बनो भावदोषः समस्ति, यथा ह्यशुभं तपसा नादत्ते प्राक्तनं च त्यजति एवं बाह्योपकरणादित्यागोऽपि संवृणोत्याश्रवद्वाराणि,
For Personal & Private Use Only
तपोधर्मः
॥४४४ ॥
www.jainelibrary.org