________________
श्रीतत्वार्थ
तपोधर्मः
हरि०
९ अध्या०
वा भवतीति संयमो धर्मः । । सम्प्रति तपः प्रस्तावायातमुच्यते-तपो द्विविधमित्यादि (१८८-१) तपतीति तपः, कर्त्तर्यसुन् , संयमात्मनः शेषाशय- विशोधनार्थ बाह्याभ्यन्तरतापनं तपः, शरीरेन्द्रियतापात् कर्मनिर्दहनाच तपः, अपर आह-विशेषेण कायमनस्तापविशेषात् तपः, द्विविधमिति बाघमभ्यन्तरं च, बाह्यमिति बाखद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच्च, अभ्यन्तरं अन्यतीर्थिकानभ्यस्तत्वात् । अन्तःकरणव्यापारस्य प्राधान्यान् अनपेक्षत्वाच्च, अन्ये त्वाहुः-परप्रत्यक्षं बाह्यं, स्वप्रत्यक्षमभ्यन्तरं, अथवा आतापनादिः कायक्लेशस्तपो बहिर्लक्ष्यत इति बाचं, अनशनादिभ्योऽपि बहिस्तरां वर्चत इति तदुपलक्षितं बाह्यं, नैवं प्रायश्चित्तादिः, तत् परस्ता-R दुपरिष्टाक्ष्यते अनशनावमौदार्यादि प्रायश्चित्तविनयादि च यथाक्रम, इह त्वशून्यार्थ पुरुषविशेषचरितं प्रकीर्णकं कवलाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति, यववज्रमध्ये चन्द्रप्रतिमे द्वे (१८८-२) मध्यशब्दः प्रत्येकममिसम्बध्यते, यवमध्या वज्रमध्या च चन्द्रप्रतिमे इति चन्द्रतुल्ये, यथा चन्द्रस्य कलावृद्धिः प्रतिवासरं एवं मिक्षाकवलवृद्धिः यथा चन्द्रस्य हानिः प्रतिदिनं तथा मिक्षाकवलहानिरिति, तत्र यवमध्या चन्द्रप्रतिमा शुक्लप्रतिपदारंभादमावस्यांता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिस्तथा मिक्षावृद्धिः कबलवृद्धिा यांवत् पौर्णमास्यां पंचदश कवलाः ततः कृष्णप्रतिपद्यपि पंचदश कवलाः एवमेकैककवलहान्या यावदमावस्यायामेकः कवल इत्येषा यवमध्या, वज्रमध्या तु कृष्णप्रतिपदारंभा, कृष्णप्रतिपदि पंचदश|| कवलानभ्यवहरति, तत्राप्येकैककवलहानिर्यावदमावस्यायामेकः कवलः, शुक्लप्रतिपद्यप्येक एवेति, द्वितीयादिग्वेकैकवृद्धिर्यावत् पौर्णमास्यां पंचदशेत्येषा वज्रमध्या। कनकरसमुक्तावल्य(१८८-२)स्तिस्त्रः कनकावली रत्नावली मुक्तावली च, तत्र कनका
॥४३९॥
॥४३९||
AIMILAIKI
Jan Education international
For Personel Private Use Only