SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ते पृथिवीकायिकाः, एवं चेन्मत्वर्थीयाभावः, उच्यते, पृथिवीकायशब्दस्य जातिशब्दत्वाद्भवत्येव मत्वर्थीयः, कृष्णसर्पवान् वल्मीक इति यथा, अथवा ज्ञापकाद्भवति 'इङ्घार्योः शत्रकृच्छ्रणी 'ति, पृथिवीकायिकजाता जातेर्वा संयमः - सम्यग् यमः - उपरमो | निर्वृत्तिरित्यर्थः, ये जीवाः पृथिवीशरीरास्तेषां संघट्टपरितापव्यापत्तीर्मनौवाक्कायैः कृतकारितानुमतिभिश्च परिहरतीत्यर्थः, एवं सर्वत्र, यावत् पंचेन्द्रियसंयमः, प्रेक्ष्यसंयम इत्यत्र क्रियापदाध्याहारः, प्रेक्ष्य क्रियामाचरन् संयमेन युज्यते, प्रेक्ष्येति चक्षुषा दृष्ट्वा | स्थण्डिलं बीजजन्तुहरितादिरहितं पश्चादूर्ध्वं निषद्यत्वग्वर्त्तनस्थानानि विदधातीत्येवमाचरतः संयमो भवति, उपेक्ष्यसंयमः व्यापार्याव्यापार्य चेत्यर्थः एवं च संयमो भवति, साधून् व्यापारयतः प्रवचनविहितासु क्रियासु संयम इति व्यापारणमेव, अव्यापारणं उपेक्षणं गृहस्थान् स्वक्रियासु अव्यापारयत उपेक्षमाणस्य - औदासीन्यं भजतः संयमो भवति, अपहृत्यसंयम इति प्रोज्झ्य-परिवर्ज्य संयमं लभते, वस्त्रंपात्राद्यतिरिक्तमनुपकारकं चरणस्य वर्जयतः संयमलाभः, भक्तपानादि वा संसक्तं विधिना | परित्यजत इति, प्रेक्षिते स्थण्डिले रजोहत्या प्रमार्जनमनुविधाय स्थानादि कार्य, पथि वा गच्छतः सचित्तमिश्रपृथिवीकाथरजो| अनुरंजितचरणस्य स्थंडिलात् स्थण्डिलं क्रामतोऽस्थंडिलाद्वा स्थण्डिलं प्रमृज्य चरणौ संयमभाक्त्वमागार्यादिरहितें, अन्यथा त्वप्रमार्जयत एव संयम इति । कायसंयम इति धाचनवल्गनोत्सवनादिनिवृत्तिः शुभक्रियासु च प्रवृत्तिः, वाक्संयमो हिंस्रपरुषादिनिवृत्तिः शुभभाषायां च प्रवृत्तिः, मनःसंयमः अभिद्रोहामिमानेर्ष्यादिनिवृत्तिः धर्म्मध्यानादिषु च प्रवृत्तिः, उपकरणसंयम ॥४३८॥ * इत्यजीवकायसंयमः, अजीवकायच पुस्तकादिः, तत्र यदा ग्रहणधारणशक्तिसम्पद्भाजोऽभवन् पुरुषा दीर्घायुषश्च तदा नासीत्प्रयोजनं पुस्तकैः, दुष्पमानुभावात्तु परिहीणैर्ग्रहणधारणादिभिरस्ति निर्युक्त्यादिपुस्तकग्रहणानुज्ञेत्येवं यथा कालमपेक्ष्यासंयमः संयमो श्रीतच्चार्थहरि० ९ अध्या० Jain Education International For Personal & Private Use Only संयमधर्मः ॥४३८ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy