________________
श्रीतच्चार्थहरि० ९ अध्या०
॥४३६॥
Jain Education International
HULLDOGM
पक्षान्तरसमाश्रयणं वा सद्भयो (वा) हितं सत्यमिति, सन्तो जीवा एवं गृह्यन्ते, हितशब्दोपादानात् न ह्यजीवसंबंधि किंचित् हितमस्ति अतोऽप्रशस्तार्थव्यावृत्तिः, सामान्येन वा जीवाजीवेभ्यो हितं, अनेकपर्यायकलापभाजोऽर्थाः तेषां यथावस्थितविवक्षितपर्यायप्रतिपादनं सत्यं, एतदेव तेभ्यो हित यद्यथार्थप्रतिपादनमिति, तस्येदानीं सत्यवचनस्य विशेषगुणानाचष्टे - तदननृतमिति, अनृतं भूतनिह्नवः अभूतोद्भावनं विपरीतं कटुकसावद्यादिवचनं, नानृतमननृतं ननु च सत्यपर्याय एवायं सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणव्यात्यर्थं पुनर्वचनं, पौरुषं रूक्षं स्नेहरहितं निष्ठुरं परपीडाकारि न परुषमपरुषं, तंत्राविनेयेषु माध्यस्थ्यभावना विनेयेषु तु सौम्यवारा अपरुषं, पिशुनं प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोषाख्यानात्, न पिशुनमपिशुनं सभार्ह सभ्यं न सम्यमसभ्यं - सभासु विगर्हितं, विदग्धसभासु गुह्यप्रकटनमर्मोद्घट्टनवचनवत्, तस्य प्रतिषेधो नासभ्यमेव सभ्यं, चपल:अनालोचितभाषी तद्वचनमपि चपलं तच्च दोषोत्क्षेपि भवति, आविलं- कलुषं कषायवशवर्त्तिनो वचनं नाविलमनाविलं प्रसन्भवचनमितियावत् विरलं विश्रम्यभाषणं सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच्छ्वणवैरस्यं करोति न विरलमविरलमनुसंततमिति, सम्भ्रांतमुच्छ्रासकरं न संभ्रान्तमसंभ्रान्तं, अतित्वरितं वा संभ्रान्तमनुच्छ्रसन् भाषयेत्, अव्यक्तवर्णपदालापत्वाद् अप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् मधुरमिति प्रसन्नपदघट्टितं श्रुतिसुखं सुखावबोधार्थ च, अभिजातमविनयरहितं |सप्रश्रयं सविनयं संदिग्धमाकांक्षानिवर्त्तने अक्षमं तद्विपरीतमसंदिग्धम् - आकांक्षाविच्छेदकारि निराकांक्षमिति, अस्फुटमनिश्चितार्थत्वादालूनविशीर्णप्रायं विनिश्चितार्थं स्फुटं, अनौदार्य अत्यौद्धत्यदीपकं तद्विपरीतमौदार्य, अप्रधानार्थ अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्य तद्युक्तमौदार्ययुक्तं, विद्वज्जनमनोरंजने असमर्थ ग्राम्यं न ग्राम्यमग्राम्यं पदार्थाच विवक्षितानमि
For Personal & Private Use Only
सत्यधर्मः
॥४३६ ॥
www.jainelibrary.org