________________
श्रीतच्चार्थ - हरि०
९ अध्या०
।।४३५।।
Jain Education International
चार्जवलक्षणं (१८६-१६) भावाः कायवाङ्मनसानि तेषां विशुद्धिः अवक्रता शाढ्यविरहितत्वं, मनसोऽपि परिणामः कायवाचोरुपचर्यते, तद्वृत्तानुवृत्तेः, मायावी तु सर्वातिसन्धानपरतया सर्वाभिशंकनीयः कपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि दुइति अविसंवादन मविनाशनमहिंसनमित्यनर्थान्तरं, विनाशनं परिणामान्तरापादनं विसंवाद नमुच्यते, न विसंवाद नमविसंवादनं परिणामातरानापादनमिति, तमेव योगानामविपर्यासं दर्शयति — ऋजुभाव इत्यादिना (१८६ - १६) उपधिनिकृत्योर्विशेषःउपधिश्छद्य च्छादनं स्वामिसंघेः, निकारो निकृतिः परिभवपरबुद्धिद्वारेण स्वामिसः धेः साफल्यापादनं, तस्मादेवंविधमार्जवं धर्म्मः । | अधुना लोभप्रतिपक्षं शौचलक्षण माविर्भावयन्नाह - अलोभः शौचलक्षणं (१८७ - १) लोभस्तु भावतः परमार्थतोऽमिष्वंगचेत| नाचेतनमिश्रवस्तुविषयः, लोभदोषाच्च क्रोधमानमायाहिंसाऽनृतस्तेयाब्रह्मपरिग्रहार्जनमलजाले नोपचीयमान आत्मा भवत्यशुचिः, तन्त्रालो भो लोभाभावो न क्वचिन्ममत्वं, अलोभस्य हि लोभदोषनिर्मुक्तत्वान्निर्भयत्वं, ततः खपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः, एतदेव स्पष्टयति-भावविशुद्धिर्ममत्वाभावो निस्संगता अपराद्रोहेणात्मार्थानुष्ठानं निष्कल्मषता निर्मलता धर्मसाधनमात्रा - रजोहरणमुखवस्त्रिकाचोलपट्टकपात्रादिलक्षणास्तावप्यनभिष्वंगो, विगतमूर्च्छ इत्यर्थः, यस्मादशुचिर्भावकल्मषसंयुक्तो, भावकल्मषं च लोभकषायः तस्मात्तत्यागः शौचं धर्म्म इति, शरीरमहावर्णप्रक्षालनादि द्रव्यशौचं तच्च प्रासुकैषणीयेन जलादिना निर्लेपनिर्गन्धतापादनमागमोक्तेन विधिना कार्यमिति । अवसरप्राप्तं पंचमं धर्मागं निर्दिदिक्षुराहसत्यर्थे भवं वचः सत्यं (१८७६) सद्विद्यमानोऽर्थोऽनेकधर्मा, तस्मिन् सत्यर्थे भवं यथावस्थितार्थप्रतिपत्तिकारि सत्यं, नन्वेवं | सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, एवं तर्हि सच्छन्दः प्रशंसार्थः, प्रशस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं,
For Personal & Private Use Only
आर्जवशौचसत्यानिः
॥४३५॥
www.jainelibrary.org