________________
श्रीतचार्थ
मानत्यागः
हरि०
९ अध्या०
शरीरबलं तु वीर्यग्रहणात् पृथग्गृहीतं,वीर्यवलस्य प्राधान्यप्रकाशनार्थ, विज्ञान-बुद्धिश्चतुर्विधा ओत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी चेति, तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्व वस्तून्युपनते तत्क्षण एव समासादितोपयतनाऽव्याहतफला भरतरोहकादेरिव भवति, गुर्वादिविनयानुष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकफलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रा| र्थग्राहिणी च पुत्रागमनकारणहस्तिनीपरिज्ञायिनैमित्तिकस्येव, कर्मजा पुनः धीः साधुकारफला, अनाचार्य कर्म, तत्र पुनः पुनरु|पयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकातिशायी पाश्चात्यं कम्र्मोपजायते, सौवर्णिककृषीबलतंतुवा| यादेवि, पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पंचावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव, | यथासंभवमित्थं लब्धया बुद्ध्या अहमेव बुद्धिमानिति मन्यमानः परान् परिभवति शेषं जगद् , मदसमुद्धतस्य परपरिभवपरिवा-16 |दात् स्वोत्कर्षाच्चाशुभं कर्म नीचर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सद्योऽवमत्य बुद्धिगर्वमित्थं चिंतयेत्| बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचिदहंकारस्य कारणीभवंति, मानपरस्य च विनयखण्डनमवश्यंभावि, विनयहीनस्य |च धर्मतपसी निष्फले स्यातामिति विज्ञानमदी यत्नेन महता विवर्जनीयः। श्रुतं-आप्तप्रणीत आगमः तत्परिज्ञानात् माद्यति-अह| मेव जाने नापर इति, श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थं आलोचयेत्-प्रकर्षाप्रकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः,कदाचिदहमन्येभ्योऽल्पश्रुतोऽतिगहनार्थत्वादागमानां, अवगतश्रुतोऽपि वा दुरधिगतदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् , अपिच-चतुर्दशपूर्वधरेष्वपि षट्स्थानकमवघुष्यते यदि तत्र का कथा शेषश्रुतधरेषु?, श्रुतज्ञाना
Ul॥४३३॥ वरणक्षयोपशमवैचित्र्यादधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति । लंभनं लाभः-प्राप्तिः विशिष्टफलस्य, सत्कारसन्मानादयः
॥४३३॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org