________________
|क्षमाधर्मः
श्रीतस्वार्थ
हरि० ९अध्या
कवत् । किं चान्यदालंबनं शांती इत्याह-पालखभावचिंतनाच्च (१८५-८) बालशब्दोऽविधेयवचनः, न वयोऽवस्थावाची, तथव चाह भाष्यकृत्-बालो मूढो निवेचक इत्यर्थः, तस्य चैप स्वभावो मूढत्वाद्यत्किंचनभाषित्वं तत्स्वभावालोचनमन्वेषणं | अतस्तश्चिंतनात् क्षमितव्यमेव, पशब्दः समुच्चयार्थः, उत्तरोत्तररक्षार्थमिति, परोक्षाकोशात् प्रत्यक्षाक्रोशनमुत्तरं, प्रत्यक्षाकोशासाडनं, ताडनान्मारणं, मारणाद्धर्मभ्रंशनं, परोक्षाकोशानां क्षमया प्रत्यक्षाक्रोशनं रक्षितं भवति, एवमुत्तरत्रापि, अस्ति हि कियदपि मन्दाक्षमाक्रोष्टुर्मयि यतः परोक्षमाकोशति न प्रत्यक्षं, दिष्टयेति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा, अयमेव च प्रसादो मम, इदमेव वा साधु यन्मां परोक्षमाकोशति, न प्रत्यक्षमित्येष एव लाभः, लौकिकः खल्वयमाभाणकःअयमेव मे लाभ इत्येवं सर्वत्र व्याख्या, किंचान्यदालम्बनमाश्रित्य क्षमा कार्या?, तदभिधीयते-स्वकृतकर्मफलाभ्यागमाच (१८६-४) जन्मान्तरेणोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति च परः, स तु निमित्तमात्रं कर्मोद-| | यस्य, यस्माद् द्रव्यक्षेत्रकालभावापेक्षः कर्मणामुदयो भगवद्भिराख्यातः, स्वकृतं च कर्मानुभवितव्यमवश्यंतया निकाचितं तपसा
वा क्षपणीयमिति क्षमितव्यमेव, किंचान्यदालंबनं क्षंतुमनसा विधेयमिति, क्षमागुणांश्चेत्यादि, क्षमाया गुणाः-ज्ञानादिवृद्धि| हेतवो अनायासादयः तांश्चानुचिन्त्य क्षमामेव विदधीत, आयासो- दुःखहेतुश्चेष्टाविशेषः प्रहरणसहायान्वेषणासंरंभावेशारुणविलोचनस्वेदद्रवप्रवाहाकुलप्रहारवेदनादिकस्तद्विपरीतोऽनायासः-स्वस्थता, आदिग्रहणात्तत्प्रत्ययकर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायता परसमाधानोत्पादनं तबिमित्तप्रसन्नान्तरात्मत्वमित्यादयः, इत्थमनुस्मरतो गुणः सम्पद्यते क्षममाणस्य, क्षमितव्यमेवेति क्षमाधर्मः। मृदुः-अस्तब्धस्तकावस्तत्कर्म वा मार्दवं, तल्लक्षणप्रदर्शनायाह-नीचैत्यनुत्सेकापिति-(१८६-८)।
॥४३१॥
॥४३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org