________________
श्रीतस्वार्थ
हरि० ९ अध्या
अशक्तस्य वा प्रतीकारानुष्ठाने, ता पर्यायशब्देनाचष्टे तितिक्षा क्षान्तिः सहिष्णुत्वं सहनशीलत्वं क्रोधनिग्रहः-क्रोधस्योदय-I7
क्षमाधर्मः | निरोधः उदितस्य वा विवेकवलेन निष्फलतापादनम् , एवमेतेऽनर्थान्तरवाचिनः शब्दाः क्षमामेवाभिदधति, तत् कथं क्षमितव्यमिति, भावे कृत्यः, क्षमापि भावः, भाष्यकारस्तु खयमेवाशंक्याह एवम् , अतः सामान्यमात्रमाश्रित्य तच्छब्दयोगः, वाक्यार्थस्तु सा क्षमा कथं केन प्रकारेण कर्त्तव्या?, एवं मन्यते-दुर्भेद्यः क्रोधवेगो मदकलस्येव करिणः, चेतशब्द आशंकाव्युदासचिकीर्षायां, आह-उच्यत इति क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् (१८०-१) भावः-सद्भावोऽस्तित्वमभावो-नास्तित्वं, चिन्तनात् उभयथापि क्रोधो न घटते इति, येन निमित्तेन परप्रयुक्तेन मम कोप उत्पद्यते तन्निमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः, यदि सत्यमस्ति एतनिमित्तं किं कोपेन, कृतं खलु मयेदं, नाणीयोऽपि परस्यात्रागः सद्भूतमर्थ प्रकाशयतः, |स्वकृतं हि दुश्चरितं लपत्येवं चिंतयेत् , एतदेवाह-भावचिंतनात् तावद् विद्यते मयि एते दोषाः, किमत्रासौ मिथ्या ब्रवीति इति क्षमितव्यं, तथा अभावचिंतनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नैते विद्यन्ते-अभाव एव, परस्त्व-| ज्ञानादेवममिधत्ते, अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः, एवं च निरपराधमात्मानं अपेत्य क्षन्तव्यमेव, किंचान्यदालम्बनं सहिष्णुत्वे इत्याह-क्रोधदोषचिन्तनाचेत्यादि, (१८४-६) क्रुद्धः-कषायपरिणतो विद्वेषी कर्म बनाति, परं वा निहंति व्यापादयति वा, ततः प्राणातिपातनिवृत्तिव्रतलोपः स्यात् , गुरून् आसादयेद्-अधिक्षिपेदतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी, क्रुद्धो वा | भ्रष्टस्मृतिको मृषापि भोपेन, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपापंडिनीषु अमवतभंगमप्यासेवते, तथा | प्रद्विष्टः सहायबुद्ध्या गृहस्थेष्वविरतेपु मूर्छामपि कुर्यात् , आदिग्रहणादुत्तरगुणभंगमप्याचरेत् , करडकवत् , भक्तालाभे मासक्षपण
॥४३०॥
| ॥४३०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org