________________
pe
क्षमादयः
श्रीतत्त्वार्थहरि० ९ अध्या०
| मिश्राश्च पृथिव्यादयः पंच, द्वीन्द्रियादयो जंगमाः, तर्जितं निरीक्ष्य चक्षुषा प्रमृज्य च रजोहृत्या वस्त्रपात्रखेलमलभक्तपानमूत्र
पुरीषादीनामुत्सर्गः-उज्झनं उत्सर्गसमितिः, इतिशब्दः परिसमाप्तिवचनः, आह च-"न्यासादानसमित्यां व्युत्सर्गे वापि वर्णिता | समितिः। सूत्रोक्तेन (च) विधिना व्युत्सृजतोऽथं प्रतिष्ठाप्यम् ।।१।। एवं साधोनित्यं यतमानस्याप्रमत्तयोगस्य । मिथ्यात्वाविरति| प्रत्ययं निरुद्धं भवति कर्म ॥२॥" अत्राह-उक्तं गुप्तिसमितीनां संवरहेतुत्वम् , अधुना को धर्मः संवरस्य करणमिति वक्तव्यं, साध्वगारिधर्मिभेदादिति संदेहस्य प्रश्नः, उच्यते, सत्यपि अविशेषामिधाने न पुण्यकर्म धर्मः, किं तर्हि १, संवरोपादानसामर्थ्यनिमित्तं यो धर्मः स उच्यते
उत्तम क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः ॥९-६॥ सूत्रम् ॥ उत्तमग्रहणमगारिधर्मव्यवच्छेदार्थ, उत्तमो धर्मः प्रकर्षयोगात् , क्षमादयो हि उत्तमविशेषणविशिष्टाः, तादृशाश्चागारिणो न |संति, यतः सर्वावस्थमनगाराः क्षमंते सकलमदस्थाननिग्राहिणः शाढ्यरहिताः सन्तोषामृततृप्ताः सत्यवादिनः संयमिनस्तपखिनो यथावद्दातारः कनकादिकिंचनरहिताः सर्वप्रकारं ब्रह्म विभ्रतीति, नत्वेवं जातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवंति, क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, समुदिता एवोत्तमो धर्मः,एष च क्षमादिसमुदायः संवरं धारयति-करोति यतस्ततो धर्मः, संवरार्थ चात्मना धार्यते इति धर्मः, एतावंति धर्मागानि तनिष्पादितश्च धर्म इति दर्शयति इत्येष दशविधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति (१८४-१८) एवमेष दशप्रकारो यतिधर्मः, उत्तमा गुणाः-मूलोत्तग्रख्यास्तेषां प्रकर्षः-परा काष्ठा तयुक्तोऽनगाराणां धर्मो भवति, तत्र क्षमेत्यादिना विवृणोति, उत्तमत्वं क्षमेति क्षमणं-सहनपरिणाम आत्मनः शक्तिमतः
॥४२९॥
H४२९
Jan Education Internation
For Personal & Private Use Only
www.jainelibrary.org