SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ समिति श्रीतधार्थ हरि० ९ अध्या मिदं, असंदिग्धं सूक्तवर्णमर्थप्रतिपत्तौ वा न सन्देहकारि, निरवद्यार्थमनुपघातकं पण्णां जीवनिकायानाम् , एवंविधं च नियतं | सर्वदेव भाषणं भाषासमितिः। एषणासमितिस्वरूपावधारणायाह-अन्नपानेत्यादि(१८४-९) अन्नम्-अशनखाद्यखाद्यभेदं पानम् आरनालतंदुलक्षालनायुद्गमादिदोपपरिशुद्धं तथा रजोहरणं समुखवसनं पात्रद्वयं चोलपट्टकादि धीवरम , आदिग्रहणात् चतुर्दश-|| विधोऽप्युपधिः स्थविरकल्पयोग्यः जिनकल्पयोग्यश्च सहौपग्रहिकेण कार्यः, धर्मसाधनानिमित्तं, श्रुतचरणधर्मसाधकानामित्यर्थः, | साक्षात् पारंपर्येण च, न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम् , एवमाहारोपकरणविषयामेषणां प्रतिपाद्य प्रतिश्रयैषणामि|धानायाह-आश्रयः-शय्या,साऽप्युद्गमादिदोषरहितैव परिभोग्या, चशब्दः समुच्चितौ, तत्र पोडश आधाकादय उद्गमदोषाः, | उत्पादनादोषाः षोडश चैव धान्यादयः, दशैषणादोषाः शंकितादयः, एतद्दोषपरिहारेणानपानादिग्रहणमेषणासमितिः, उक्तं च| "उत्पादनोद्गमैषणधूमांगारप्रमाणकारणतः । संयोजनाच पिण्डं शोधयतामेषणासमितिः॥१॥" आदाननिक्षेपसमितिस्वरूपविवक्षया प्राह-रजोहरणेत्यादि (१८४-११) रजोहरणादिपात्रचीवरादीनामिति चतुर्दशविधोपधेग्रहणं द्वादशविधोपधिग्रहणं च पंचविंशतिविधोपधिपरिग्रहश्च, पीढफलकादीनामिति चाशेषौपग्राहिकोपकरणं आवश्यकार्थमित्यवश्यतया वर्षासु पीठफलकादिग्रहः, कदा|चिद्धेमन्तग्रीष्मयोरपि क्वचिदनूपविषये जलकणिकाकुलायां भृमौ, एवं द्विविधमप्युपधिं स्थिरतरमभिसमीक्ष्य प्रमृज्य च रजोह| त्याऽऽदाननिक्षेपौ कर्तव्यावित्यादाननिक्षेपणासमितिः, आह च-"न्यासाधिकरणदोषात् परिहृत्य दयापरस्य निक्षिपतः। न्यासे | समितिरथादाने च तथैवाददानस्य ॥१॥" उत्सर्गसमितिस्वरूपकथनायाह-स्थण्डिल इत्यादि (१८४-१३) स्थानदानात् स्वण्डिलं -उज्झितव्यवस्तुयोग्यो भूप्रदेशः, कीदृक् पुनस्तदवकाशं ददातीत्याह-स्थावरजंगमजन्तुवर्जितं, तत्र स्थावराः-सचित्ता ॥४२८॥ ॥४२८॥ Jan Education r ational For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy