________________
श्रीतत्त्वार्थ
हरि० ९ अध्या०
Imil
स्वरूपं
आगमानुसारिणी गतिरीर्यासमितिः, समितिरिति तान्त्रिकी संज्ञा पंचसु चेष्टासु,अथवा नानुवर्तते सम्यग्ग्रहणं, समितिरिति समु| पसर्गः प्रशंसार्थः, प्रशस्ता इतिः-चेष्टा, सर्ववित्प्रवचनानुसारेण प्राशस्त्यार्थः, एवं भाषणं भाषास्तद्विषया समितिः भाषासमितिः, एषणमेपो-गवेषणमेषणासमितिः, आदान-ग्रहणं निक्षेपो-न्यासः स्थापनं तयोः समितिः प्रावचनेन विधिनाऽनुगता आदाननिक्षेपणासमितिः, उत्सर्जनमुत्सर्गः, उत्सर्जनमाहारोपधिशय्योच्चारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः, ईर्यादयः कृतद्वन्द्वाः समिति| शब्दसमानाधिकरणा इति । अमुमर्थ भाष्येण स्पष्टयति-सम्यगीर्येत्यादिना (१८४-६) सम्यग्-आगमपूर्विका ईर्या-गमनमात्मपरवाधापरिहारेण, यथोक्तं-"पुरओ जुगमायाए, पेहमाणो महिं चरे । वजेंतो बीअहरिआई, पाणे य दगमट्टि।।१॥ओवायं विसमं खाणु, विजलं परिवञ्जए। संकमेण न गच्छिा , विजमाणे परक्कमे ॥२॥" सम्यग्भाषाऽप्यागमानुवर्तिनी, "जा य सच्चा न वत्तवा, सच्चामोसा य जा मुसा । जा य बुद्धेहिऽणाइण्णा, ण तं भासेज पण्णवं ॥३॥" सम्यगेषणा-गवेषणा आगमविधिना | पिंडादीनां, सम्यगादाननिक्षेपी प्रत्युपेक्षणप्रमार्जनपूर्वको, सम्यगुत्सर्गः स्थंडिले व्यपगतप्राणिके, इतिशब्दः स्वरूपप्रतिपादनार्थः, |एवंस्वरूपाः पंचैव समितयः, तदेव स्वरूपं प्रपंचयति-तत्रेत्यादि, तत्र तासु समितिषु ईर्यासमितिरित्थंरूपा अवश्यकार्ये चे| त्यवश्यं कार्य-कर्तव्यं यदागमोदितं प्रयोजनं विहारादिभूगमनं, सदेव भूयः स्पष्टयति-संयमार्थमिति, संयमः सप्तदशभेदः, तदेव चावश्यकमवश्यंतया कर्त्तव्यं, सर्व इति सर्वत्र युगप्रमिते भूप्रदेशे, पादाग्रादारभ्य यावद्युगमात्र तावनिरीक्षणेत्यर्थः, युक्तः आयुक्तः, तस्यैवं चेष्टमानस्य शनैः शनैर्मन्दं गतिभेदमकुर्वतो न्यासं चरणयोराचरत ईर्यासमितिः । सम्प्रति भाषासमितिनिरूपणायाह-हितमित्यादि, आत्मने परस्मै च हितमायत्यां तदात्वे चोपकारकं मुखवसनाच्छादितास्येन, नातिबहु, प्रयोजनमात्रसाधक
॥४२७||
॥४२७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org